Sanskrit Sample paper Class – 7
किसी भी परीक्षा की तैयारी करने से पहले हमें यह ज्ञात होना चाहिए कि परीक्षा में आने वाले प्रश्न किस प्रकार के होते हैं | एक बार प्रश्न पूछने के तरीके की जानकारी होने के बाद हम अच्छे अंक प्राप्त कर सकते हैं | अब हम एक आदर्श प्रश्न पत्र (Sanskrit Sample paper Class – 7) देखते हैं | इस प्रश्न पत्र के उत्तर अगले अंक में दिए गए है |
आदर्श प्रश्न-पत्रम्
कक्षा – 7
Subject – Sanskrit
समय: – 2:30 होरा अंका: – 60
खण्ड- क (Sanskrit Sample paper Class – 7)
अपठित-अवबोधनम् (9 अंका:)
प्रश्न: 01. अधोलिखितं अनुच्छेदं पठित्वा प्रश्नानाम् उत्तराणि लिखत –
पुस्तकालय: शब्द: पुस्तक + आलय: पदाभ्यां निर्मित:, तस्य अर्थ: – पुस्तकानाम् गृहम् | अस्माकं पुस्तकालय: नगरस्य रमणीय-स्थाने वर्तते | अस्य भवनं विशालं सुन्दरं च अस्ति | अस्मिन् पुस्तकालये दश-सहस्राणि पुस्तकानि सन्ति तथा च अत्र अनेकानि पत्राणि प्रतिदिनं आगच्छन्ति | अनेका: जना:, छात्रा: च आगत्य स्वाध्ययनं कुर्वन्ति | अस्माकं ज्ञान-वर्धनाय बौद्धिकविकासाय च पुस्तकालयानां महती भूमिका अस्ति | पुस्तकालये पुस्तकानाम् अभाव: कदा अपि न अवलोकित: |
I. एकपदेन उत्तरत – (1×3=3)
(i) पुस्तकालय: शब्द: काभ्यां पदाभ्यां निर्मित: अस्ति ?
(ii) अस्मिन् पुस्तकालये कति पुस्तकानि सन्ति ?
(iii) अस्माकं ज्ञान-वर्धनाय बौद्धिकविकासाय च केषाम् महती भूमिका अस्ति ?
II. पूर्ण-वाक्येन उत्तरत – (2×1=2)
(i) अत्र के आगत्य स्वाध्ययनं कुर्वन्ति ?
III. यथानिर्देशं उत्तरत – (3×1=3)
(i) “अत्र अनेकानि पत्राणि प्रतिदिनं आगच्छन्ति” अस्मिन् वाक्ये क्रिया-पदम् किम् ?
(अ) अनेकानि
(ब) प्रतिदिनं
(स) आगच्छन्ति
(द) अत्र
(ii) “अस्य भवनं विशालं सुन्दरं च अस्ति” अस्मिन् वाक्ये विशेषण-पदम् किम् ?
(अ) अस्य
(ब) भवनं
(स) विशालं सुन्दरं
(द) च
IV. अस्य अनुच्छेदस्य कृते उपयुक्तं शीर्षकं लिखत | (1×1=1)
खण्ड-ख
रचनात्मक-कार्यम् (12 अंका:)
प्रश्न: 02. चित्रं दृष्ट्वा मञ्जूषाया: सहायतया चत्वारि वाक्यानि लिखत – (2×4=8)
ग्रासं, वृक्ष:, धावति, पश्यति, चरति, चलति, धेनु: |
प्रश्न: 03. अधोलिखितेषु पदेषु मेलनं कृत्वा वाक्यानि रचयत – (1×4=4)
(i) अहम् कन्दुकेन पठसि
(ii) त्वं पत्रं क्रीडति
(iii) स: फलं गच्छामि
(iv) तौ गृहं खादत:
खण्ड-ग
अनुप्रयुक्य-व्याकरणम् (18 अंका:)
प्रश्न: 04. उचित-शब्दरूपम् चित्वा रिक्तस्थानानि पूरयत – (1×4=4)
(i) इदं बालकस्य ………. अस्ति | (पुस्तकं/ पुस्तकेन)
(ii) वृक्षात् ……….. पतन्ति | (पत्राणि/ पत्रेषु)
(iii) एते ………..सन्ति | ( बालक:/बालका:)
(iv) तत्र अनेका: ……… सन्ति | (जना:/ जनेन)
प्रश्न: 05. उपसर्गं चित्वा लिखत – (1×2=2)
(i) अनुभवति ………..|
(ii) निर्गच्छति ………..|
(iii) प्रभवति ………..|
प्रश्न: 06. मञ्जूषात: अंकानां कृते पदानि चिनुत – (1×4=4)
(i) 22
(ii) 16
(iii) 35
(iv) 12
द्वादश, षोडश, द्वाविंशति:, पञ्चत्रिंशत् |
प्रश्न: 07. अधोलिखितानां शब्दानां कृते मञ्जूषात: चित्वा संस्कृत-पदम् लिखत – (1×4=4)
(i) शिकारी
(ii) मूर्ख
(iii) कच्छुआ
(iv) शत्रु
रिपु:, मूढ़:, कच्छप:, धीवर: |
प्रश्न: 08. क्रियापदम् चित्वा वाक्यानि पूरयत – (1×3=3)
(i) बालक: गृहं …………| (गच्छति/गच्छन्ति)
(ii) स: फलं ……………..| (खादत:/खादति)
(iii) मयूरा: उपवने ………| (नृत्यन्ति/नृत्यति)
(iv) सा पुस्तकं …………..| ( पठसि/पठति)
खण्ड – घ
पठित-अवबोधनम् (22 अंका:)
प्रश्न: 09. अधोलिखितं गद्यांशं पठित्वा प्रश्नानाम् उत्तराणि लिखत –
अथ एकदा धीवरा: तत्र आगच्छन् | ते अकथियन् – “वयं श्व: मत्स्यकूर्मादीन् मारिष्याम: |” एतत् श्रुत्वा कूर्म: अवदत् – “मित्रे ! किम् युवाभ्यां धीवराणाम् वार्ता श्रुता” ? अधुना किम् अहं करोमि ? हंसौ अवदताम् – “प्रात: यद् उचितं तत्कर्त्तव्यम् |” कूर्म: अवदत् – मैवम् | यद् यथा अहं अन्यं ह्रदं गच्छामि तथा कुरुतम् | हंसौ अवदताम् – आवां किम् करवाव ? कूर्म: अवदत् – अहं युवाभ्यां सह आकाशमार्गेण अन्यत्र गन्तुम् इच्छामि |
I. एकपदेन उत्तरत – (1×1=1)
(i) कूर्म: युवाभ्यां सह केन मार्गेण अन्यत्र गन्तुम् इच्छति ?
II. पूर्ण-वाक्येन उत्तरत – (2×2=4)
(i) धीवरा: किम् अकथियन् ?
(ii) कूर्म: केन सह अन्यत्र गन्तुम् इच्छति ?
III. यथानिर्देशं उत्तरत – (3×1=3)
(i) “अथ एकदा धीवरा: तत्र आगच्छन्” अस्मिन् वाक्ये कर्ता क: अस्ति ?
(अ) एकदा
(ब) धीवरा:
(स) आगच्छन्
(द) तत्र
(ii) “आकाशमार्गेण अन्यत्र गन्तुम् इच्छामि” अस्मिन् वाक्ये अव्ययपदम् किम् अस्ति ?
(अ) अन्यत्र
(ब) आकाशमार्गेण
(स) गन्तुम्
(द) इच्छामि
(iii) “आवां किम् करवाव” अस्मिन् वाक्ये क्रियापदम् किम् अस्ति ?
(अ) करवाव
(ब) किम्
(स) आवां
(द) न किम् अपि
प्रश्न: 10. अधोलिखितं पद्यांशं पठित्वा प्रश्नानाम् उत्तराणि लिखत –
पृथिव्याम् त्रीणि रत्नानि , जलमन्नं सुभाषितम् |
मूढै: पाषाण-खंडेषु , रत्नसंज्ञा विधीयते ||
I. एकपदेन उत्तरत – (1×1=1)
(i) पृथिव्याम् कति रत्नानि ?
II. पूर्ण-वाक्येन उत्तरत – (2×2=4)
(i) पृथिव्याम् कानि रत्नानि ?
(ii) मूढै: कुत्र रत्नसंज्ञा विधीयते ?
III. यथानिर्देशं उत्तरत – (3×1=3)
(i) “पृथिव्याम् त्रीणि रत्नानि” अस्मिन् वाक्ये संख्यापदम् किम् अस्ति ?
(अ) त्रीणि
(ब) रत्नानि
(स) पृथिव्याम्
(द) न किम् अपि
(ii) “रत्नसंज्ञा विधीयते” अत्र क्रियापदम् किम् ?
(अ) संज्ञा
(ब) रत्न
(स) विधीयते
(द) न किम् अपि
(iii) “खंडेषु” अत्र का विभक्ति: ?
(अ) प्रथमा
(ब) सप्तमी
(स) तृतीया
(द) पञ्चमी
प्रश्न: 11. रेखांकित-पदानां प्रश्न-निर्माणं कुरुत – (1×3=3)
(i) वसुन्धरा बहुरत्ना भवति |
(ii) सत्येन वाति वायु: |
(iii) श्रीकण्ठस्य पिता समृद्ध: आसीत् |
प्रश्न: 12. विलोम-पदानि योजयत – (1×3=3)
(i) दुर्बुद्धे: (क) सुबुद्धे:
(ii) सुखिन: (ख) दानवा:
(iii) मानवा: (ग) दुःखिन: