Sanskrit Sample paper 2025 class 10

Sanskrit Sample paper 2025 class 10

यह प्रश्न पत्र CBSE परीक्षा 2025 पर आधारित एक sample paper है | इस प्रश्न-पत्र के द्वारा आप आगामी board परीक्षा की तैयारी के लिए सहायता ले सकते हैं | मुझे पूर्ण विश्वास है कि इस (Sanskrit Sample paper 2025 class 10) प्रश्न-पत्र से आपको निश्चित रूप से फायदा होगा | 

कक्षा – 10 

संस्कृत code – 122 

समय – 3 Hours   अंक – 80 

सामान्यनिर्देशा : General instructions. 

  • अस्मिन् प्रश्नपत्रे चत्वार: खण्डा: सन्ति
  • Four parts in this question paper. 
  • उत्तराणि संस्कृतेन एव लेखनीयानि
  • Write answer in Sanskrit only. 

प्रश्नपत्र-स्वरुपम्- 

 क – अपठितावबोधनम् – 10 अंका: 

 ख – रचनात्मक-कार्यम् – 15 अंका: 

 ग – अप्रयुक्त-व्याकरणम् – 25 अंका: 

 घ – पठिताबोधनम् – 30 अंका: 

सभी प्रश्नों के उत्तर अगले लेख में दिए गए हैं |

खण्ड: ‘क’  अपठित-अवबोधनम् 

प्रश्न – 1. अधोलिखितं गद्याशं पठित्वा प्रदत्त प्रश्नानां उत्तराणि संस्कृतेन लिखत | (10) 

विशिष्टं ज्ञानं विज्ञानं कथ्यते | विज्ञानबलेन संसारे विविधानि चमत्कारपूर्णानि वस्तूनि आविष्कृतानि जातानि | विज्ञानस्य चमत्कारेण अधुना सर्वत्र आश्चर्य-जनकानि वस्तूनि दृश्यन्ते | समुद्रे विशालानि जलयानानि निर्भयेन गच्छन्ति | विशाले गगने वायुयानेन मानवा अन्य देशं प्रति शीघ्रं गच्छन्ति | विद्युत् – बलेन शीतकाले उष्णता ग्रीष्मकाले च शैत्यं प्राप्यते | अतिविशालानि उन्नातानि  च भवनानि विज्ञानेन निर्मियन्ते | आधुनिके युगे चलदूरवाणी, दूरदर्शनम्, संगणकम्, रेडियो, इन्टरनेट इत्यादीनि सर्वसुलभानि जातानि | सुख‌ोपभोगाय अनेकानि उपकरणानि आविष्कृतानि जातानि येन अस्माकं जीवनं सुलभं जातम् | सम्प्रति विज्ञानं हि अस्माकं मानव-सभ्यताया: मूलम् वर्तते |

अ – एकपदेन उत्तरत | (केवल प्रश्नद्वयम्) (1 x 2 = 2) 

  1. विशिष्टं ज्ञानं किम् कथ्यते?
  2. समुद्रे विशालानि जलयानानि कथं गच्छन्ति?
  3. सम्प्रति विज्ञानं हि अस्माकं मानव-सभ्यताया: किम् वर्तते?

आ – पूर्ण वाक्येन उत्तरत | (केवल प्रश्नद्वयम्) (2 x 2 = 4) 

  1. संसारे कानि आविष्कृतानि जातानि?
  2. विद्युत् – बलेन किम् किम् प्राप्यते?
  3. आधुनिके युगे कानि सर्वसुलभानि जातानि?

इ – अस्य अनुच्छेदस्य कृते उपयुक्तं शीर्षकं संस्कृतेन लिखत | (1) 

ई – यथानिर्देम् उत्तरत | (केवल प्रश्नत्रयम्) (1 x 3 = 3) 

1. “विशिष्टं ज्ञानं विज्ञानं कथ्यते” इत्यस्या: क्रियापदं किम्?

(अ) विशिष्टम्

(ब) विज्ञानम्

(स) कथ्यते

2. “विशालानि जलयानानि” अनयो: पदयो: विशेष्यपदं किम्?

(अ) विशालानि

(ब) जलयानानि

(स) किमपि न

3. “दुर्लभम्” इत्यस्य पदस्य क: विलोमपदं गद्यांशे प्रयुक्तम्?

(अ) सुलभं

(ब) सुकरं

(स) सरलं

4. “विद्युत् – बलेन शीतकाले उष्णता ग्रीष्मकाले च शैत्यं प्राप्यते” अत्र किम् अव्ययपदम्?
(अ) उष्णता

(ब) ग्रीष्मकाले

(स) च

खण्ड: ‘ख’ (Sanskrit Sample paper 2025 class 10)

रचनात्मकं कार्यम् Creative work 

प्रश्न – 2. भवत: नाम वैभव: स्व-मित्र-आदित्य: देहारादूने छात्रावासे निवसति | भवान् स्वमित्रं एकादश-कक्षायां संस्कृतं पठितुं प्रेरयितुं लिखिते पत्रे रिक्तस्थानानि पूरयित्वा पत्रं लिखत | (1/2 x 10 = 5) 

छात्रावास:,

(i) .…………

प्रिये मित्र- आदित्य !

(ii) …………….

अत्र कुशलं तत्रास्तु | तव (iii) …………… ज्ञातं यत् त्वं एकादश कक्षायां संस्कृतं पठितुं इच्छसि इति ज्ञात्वा अहं अति-प्रसन्न: (iv) ……….. | यत: संस्कृतं पठित्वा वयं स्वदेशस्य गौरवं अनुभवितुं (v) ………..| इयं देवभाषा विश्वस्य सर्वासु भाषासु प्राचीनतमा वैज्ञानिकी च वर्तते | विश्वस्य (vi) ……….भाषासु भारतीयभाषासु च (vii) ……….. शब्दा: प्राप्यन्ते | किं त्वं जानासि यत् वेदा:, रामायणं, महाभारतं पुराणानि इत्यादय: (viii) ………… संस्कृते एव लिखिता: सन्ति | अत: त्वं सर्वै: (ix) ……….. सह संस्कृतं अपि पठ |

तव (x) …………
वैभव:

मंजूषा

अभवम्, नमोनम:, मित्रम्, शक्नुम:, विषयैः , देहारादूनत:, संस्कृतस्य, अनेकासु, पत्रेण, ग्रन्था:

 

प्रश्न – 3. प्रदत्तचित्रं दृष्ट्वा मंजूषायां प्रदत्तशब्दानां सहायतया पञ्च वाक्यानि संस्कृतेन लिखत | (1 x 5 = 5) 

School Library Images - Free Download on Freepik

मंजूषा

पुस्तकानि, अध्यापिका, छात्रा:, उत्पीठिका, आसन्दा:, पठन्ति, ददाति, स्वीकुर्वन्ति, वातायनम्, संगणक-यन्त्रं

अथवा 

मंजूषाप्रदत्तशब्दानां सहायतया निम्नलिखितं विषयम् अधिकृत्य न्यूनातिन्यूनं पंचभि: संस्कृतवाक्यै: एकम् अनुछेदं लिखत | (1 x 5 = 5) 

“दूरदर्शनम्” 

मंजूषा 

जना:, पश्यन्ति, दूरदर्शनम्, समाचारा:, समसामयिक्य:, घटना:, देश-विदेशस्य, मनोरंजनम्, ज्ञान-विज्ञानं, समाचार-वाचका:, दर्शका: |

अनुवाद 

प्रश्न – 4. अधोलिखितानि वाक्यानि संस्कृतभाषया अनूद्य लिखत | (केवलपञ्चवाक्यानि ) (1 x 5 = 5) 

1. मैं गुरुकुल में रहता हूँ |

I live in the gurukula.

2. मेरे पिताजी क्लर्क है |

My father is a cleark

3. मेरी माता अध्यापिका है |

My mother is a teacher.

4. वह सोमवार को मुंबई जाएगा |

He will go to Mumbai on Monday.

5. हम सब वहाँ कब जाएँगे ?

When will we go there?

खण्ड: ‘ग’ 

अनुप्रयुक्त व्याकरणम् Grammar (Sanskrit Sample paper 2025 class 10) 

प्रश्न – 5. अधोलिखितेषु वाक्येषु रेखांकित पदेषु संधिम् संधिविच्छेदं वा कुरुत | (केवल प्रश्नचतुष्ट्यम्) (1 x 4 = 4) 

(1) अश्वश्चेद् (2) काचित् + इयम् (3) इत: + अपि (4) प्रथमोऽध्यायः (5) सत् + मार्ग:

प्रश्न – 6. अधोलिखितेषु वाक्येषु रेखांकित पदानां समासं विग्रहं वा प्रदत्तविकल्पेभ्य: चित्वा लिखत | (केवल प्रश्नचतुष्ट्यम्) (1 x 4 = 4) 

1. अयि चल बन्धो! खगकुलकलरव: गुंजितवनदेशम् |
(क) खगकुलानाम् कलरव:

(ख) खगकुल कलरव:

(ग) खगकुललानि कलरव:

2. पश्चात् वर्जन्ति संख्या |
(क) अनुवर्जन्ति

(ख) उपवर्जन्ति

(ग) आवर्जन्ति

3. कुत्सितवस्तुमिश्रितं भक्ष्यं समलं धरातलम् |

(क) मलात् सहितं

(ख) मलेन सहितं

(ग) मल युक्तं

4. प्रस्तरस्य तले लतातरूगुल्मा न भवन्तु पिष्टा |

(क) लता: तरव: गुल्मा: च

(ख) लता: च तरूगुल्मा:

(ग) लता: च तरव: च गुल्मा: च

5. राजसिंह नाम राजपुत्र: निवसति |

(क) राजानां पुत्र:

(ख) राज्ञ: पुत्र:

(ग) राजस्य पितृ:

प्रश्न – 7. अधोलिखितेषु वाक्येषु रेखांकित पदनां प्रकृति-प्रत्ययौ संयोज्य विभज्य वा उचितम् उत्तरं विकल्पेभ्य: चित्वा लिखत | (केवल प्रश्नचतुष्ट्यम्) (1 x 4 = 4) 

1.  हरिततरुणाम् ललितलतानां माला रमणीया |

(क) रमण + ईया

(ख) रमणीय + टाप्

(ग) रमणी + या

2. वाष्पयानमाला सन्धावति वितरन्ती ध्वानम् |

(क) वितरन् + ङीप्

(ख) वितरत् + ङीप्

(ग) वितरन्त् + ङीप्

3. अध्यापिका अस्मान् पाठयति |

(क) अध्यापक + तल्

(ख) अध्यापक + आ

(ग) अध्यापक + टाप्

4. राजसिंह: ज्ञानवान् राजपुत्र: आसीत् |

(क) ज्ञान + वान्

(ख) ज्ञान + मतुप्

(ग) ज्ञान + वतुप्

5. सर्वेषाम् एव महत्त्वं विद्यते |

(क) महत् + त्व

(ख) महत् + त्वं

(ग) महत + त्व

Active voice to passive voice:-

प्रश्न – 8. वाच्यानुसारम् उचितपदै: रिक्तस्थानानि पूरवयित्वा अधोलिखितं संवादं पुन: लिखत | (केवल प्रश्नत्रयम्) (1 x 3 = 3) 1. निखिल: – आदित्य! ………..पठसि ? 

(क) त्वं

(ख) अहं

(ग) मया

2. आदित्य: – मया संस्कृत-पुस्तकं ……………. | 

(क) पठ्यते

(ख) पठामि

(ग) पठति

3. निखिल: – शोभनम्! तव ………….. शुद्धं वर्तते | 

(क) श्लोकोच्चरणा:

(ख) श्लोकोच्चरण:

(ग) श्लोकोच्चरणम्

4. आम् ………….. प्रतिदिनं श्लोकोच्चरणस्य अभ्यास: क्रियते | 

(क) त्वया

(ख) मया

(ग) अहम्

प्रश्न – 9 कालबोधकै: अधोलिखित-वाक्यानि पूरयत | (केवलप्रश्नचतुष्ट्यम्) (1 x 4 = 4) 

  1. अहं अपराह्ने (12:30) ……………….. भोजनं करोमि |
  2. तदन्तरं (05:15) ………….. खेलनाय गच्छामि |
  3. रात्रौ (08:30) ………….. मनोरंजनाय दूरदर्शनं पश्यामि |
  4. दूरदर्शनं दृष्ट्वा (09:00) ………….. पठनं करोमि |
  5. रात्रौ (10:45) ……………. अहं स्वपिमि |

प्रश्न – 10 मञ्जूषायां प्रदतै: उचितै: अव्ययपदै: अधोलिखित-वाक्येषु रिक्तस्थानानि पूरयत | (केवलप्रश्नत्रयम् ) (1 x 3 = 3) 

(1) नगरात् …………… एकं वनम् अस्ति |

(2) तत्र दिनं………….. अन्धकार: भवति |

(3) जना: प्राय: कुक्कुरेभ्य: रक्षाम् ………… मत्वा एव तत्र प्रविशन्ति |

(4) कुक्कुराश्च जीवान् दृष्ट्वा ……….शब्दं कुर्वन्ति |

(5) तच्छ्रुत्वा वन्या: पशव: ………… न आगच्छन्ति |

(6) एकाकी वने …………. गच्छेत् |

मञ्जूषा

इति, मा, बहि:, यत्र-कुत्र, यावत्, कदापि

प्रश्न – 11. अधोलिखित-वाक्येषु रेखांकित-अशुद्धपदाय उचितं पदं चित्वा वाक्यानि पुन: लिखत | (केवलप्रश्नत्रयम्) (1 x 3 = 3) 

1. अहं क्रिकेट-क्रीडाम् क्रीडति |

(क) क्रीडाम:

(ख) क्रीडामि

(ग) क्रीडत:

2. सिंह: भयंकर: वने निवसति |

(क) भयंकरे

(ख) भयंकरा

(ग) भयंकरम्

3. स: भोजनं कुरु |

(क) करोति

(ख) करोषि

(ग) करोमि

4. जना: ग्रामे गच्छन्ति |

(क) ग्रामं

(ख) ग्राम

(ग) ग्राम:

खण्ड: ‘घ’ 

पठितावबोधनम् Read understanding

प्रश्न – 12. अधोलिखितं गद्याशं पठित्वा प्रदत्तप्रश्नानां उत्तराणि संस्कृतेन लिखत | (5) 

अस्मि देवलाख्यो ग्राम: | तत्र राजसिंह: नाम राजपुत्र: निवसति स्म | एकदा केनापि आवश्यक-कार्येण तस्य भार्या बुद्धिमती पुत्रद्वयोपेता पितु: गृहं प्रति चलिता | मार्गे गहनकानने सा एकं व्याघ्रं ददर्श | सा व्याघ्रं आगच्छन्तम् दृष्ट्वा धार्ष्ट्यात् पुत्रौ चपटेया प्रहृत्य जगाद – “कथमेकैकशो व्याघ्रभक्षणाय कलहं कुरुथः? अयमेकस्तावत् विभज्य भुज्यताम् | पश्चात् अन्य: द्वितीय: कश्चित् लक्ष्यते |” इति श्रुत्वा व्याघ्रमारी काचिदियमिति मत्वा व्याघ्र: भयाकुलचित्त: नष्ट: |

अ. एकपदेन उत्तरत – (केवलप्रश्नद्वयम्) (1/2 x 2 = 1) 

1.ग्रामस्य नाम किम् अस्ति?

2. बुद्धिमती पुत्रद्वयोपेता कुत्र चलिता?

3.राजपुत्रस्य नाम किम् अस्ति?

आ. पूर्णवाक्येन उत्तरत – (केवलप्रश्नद्वयम्) (1 x 2 = 2) 

  1. सा पुत्रौ चपटेया किम् जगाद?
  2. राजपुत्र: कुत्र निवसति स्म?
  3. बुद्धिमती व्याघ्रं कुत्र ददर्श?

इ . निर्देशनुसारं उत्तरत – (केवलप्रश्नद्वयम्) (1 x 2 = 2) 

  1. “निवसति स्म” इत्यस्या: क्रियाया: कर्तृपदं किम्?
  2. “गहनकानने” अत्र विशेषणपदं किम्?
  3. “वने” इति पदस्य किम् पर्यायपदं गद्यांशे प्रयुक्तम्?

प्रश्न –13. अधोलिखितं पद्याशं पठित्वा प्रदत्त प्रश्नानां उत्तराणि संस्कृतेन लिखत | (5) 

वायुमंडलं भृशं दूषितं न हि निर्मलं जलम् |

कुत्सितवस्तुमिश्रितं भक्ष्यं समलं धरातलम् |

करणीयं बहिरंतर्जगति तु बहु शुद्धीकरणम् |

अ. एकपदेन उत्तरत- (केवलप्रश्नद्वयम्) (1/2 x 2 = 1) 

  1. किम् भृशं दूषितं अस्ति?
  2. धरातलम् केन युक्तं अस्ति?
  3. भक्ष्यं कीदृशं अस्ति?

आ. पुर्णवाक्येन उत्तरत- (केवलप्रश्नद्वयम्) (1 x 2 = 2) 

  1. जलम् कीदृशं नास्ति?
  2. अस्माभिः कुत्र शुद्धीकरणीयम्?
  3. वायुमंडलं कीदृशं अस्ति?

इ . निर्देशनुसारं उत्तरत- (केवलप्रश्नद्वयम्) (1 x 2 = 2) 

  1. “नीरं” इति पदस्य पर्यायपदं किम्?
  2. “निर्मलं” इति पदस्य विपर्ययपदं किम्?
  3. “निर्मलं जलम्” अत्र विशेषणपदं किम्?
नाटकम् 

प्रश्न –14. अधोलिखितं नाट्यांशं पठित्वा प्रदत्त प्रश्नानां उत्तराणि संस्कृतेन लिखत | ( 5 ) 

सिंह: – (क्रोधेन गर्जन्) भो:! अहं वनराज: | किम् भयं न जायते ? किमर्थं मामेवं तुदन्ति सर्वे मिलित्वा ?

एक: वानर: – यत: त्वं वनराज: भवितुं तु सर्वथा अयोग्य: | राजा तु रक्षक: भवति परं भवान् तु भक्षक: | अपि च स्वरक्षायामपि समर्थ: नासि तर्हि कथमस्मान् रक्षिष्यसि ?

अन्य: वानर: – किम् न श्रुता त्वया पंचतंत्रोक्ति: –

यो न रक्षति वित्रस्तान् पीड्यमानान्परै: सदा |

          जन्तून् पार्थिवरूपेण स कृतान्तो न संशय: ||

काक: – आम्, सत्यं कथितं त्वया | वस्तुत: वनराज: भवितुं तु अहमेव योग्य: |

पिक: – (उपहसन्) कथं त्वं योग्य: वनराज: भवितुं, यत्र तत्र ‘का-का’ इति कर्कशध्वनिना वातावरणमाकुलीकरोषि | न रूपं न ध्वनिरस्ति | कृष्णवर्णं मेध्यामेध्यभक्षकं त्वां कथं वनराजं मन्यामहे वयम् ?

अ. एकपदेन उत्तरत- (केवलप्रश्नद्वयम्) (1/2 x 2 = 1) 

  1. क: क्रोधेन गर्जन्?
  2. क: रक्षक: भवति?
  3. ‘किमर्थं मामेवं तुदन्ति सर्वे मिलित्वा?’ इति क: कथयति?

आ. पूर्णवाक्येन उत्तरत—( केवलप्रश्नद्वयम्) (1 x 2 = 2) 

  1. ‘का-का’ इति कर्कशध्वनि: क: करोति?
  2. पिक: काकं प्रति किम् वदति?
  3. काक: किम् वदति?

इ. निर्देशनुसारं उत्तरत- (केवलप्रश्नद्वयम्) (1 x 2 = 2) 

  1. “राजा” इत्यस्य कर्तृपदस्य क्रियापदं किम् प्रयुक्तम्?
  2. “किमर्थं मामेवं तुदन्ति सर्वे मिलित्वा:” अत्र अव्ययपदं किम्?
  3. “कपि” इति पदस्य गद्यांशे पर्यायपदं किं प्रयुक्तम्?

प्रश्न – 15. रेखांकितपदानि आधृत्य प्रश्ननिर्माणं कुरुत (केवलप्रश्नचतुष्ट्यम्) (1 x 4 = 4) 

  1. अध्यापक: विद्यालये छात्रान् पाठयति |
  2. आरक्षी चौरेभ्य: त्रायते |
  3. मानवै: सदा सत्यं वक्तव्यम् |
  4. अध्यापक: सुधाखंडेन लिखति |
  5. आचार: प्रथमो धर्म: इत्येतद् विदुषां वच: |

प्रश्न – 16. मंजूषात: समुचितपदानि चित्वा अधोलिखितश्लोकस्य अन्वय पूरयित्वा पुन: लिखत | (1 x 4 = 4) 

वाक् पटु धैर्यवान् मंत्री सभायामप्यकातर: |

स केनापि प्रकारेण परै: न परिभूयते ||

अन्वय: – मंत्री (i)………….. धैर्यवान् सभायाम् अपि (ii) ……………. स: परै: (iii) …………. अपि प्रकारेण न (iv)………… |

             मञ्जूषा

वाक् पटु, परिभूयते, अकातर:, केन
                                        अथवा
मञ्जूषाया: सहायतया श्लोकस्य भावार्थ: रिक्तस्थानानि पूरयित्वा पुन: लिखत | (1 x 4 = 4) 

आचार: प्रथमो धर्म: इत्येतद् विदूषाम् वच: |

तस्माद् रक्षेत् सदाचारं प्राणेभ्य: अपि विशेषत: ||

भावार्थ: – अस्य भाव: अस्ति यत् सदाचार: जनानां (i) …………धर्म: अस्ति, इति (ii) …………. कथयन्ति अतएव जनै: (iii) ………….. रक्षा प्राणेभ्य: अपि (iv) ………….करणीया |

                 मञ्जूषा 

विद्वांस:, विशेषतया, प्रथम:, सदाचारस्य

प्रश्न – 17. अधोलिखितं कथाशं समुचित-क्रमेण लिखत | (1/2 x 8 = 4) 

  1. तेन वित्तेन स्वपुत्रम् एकस्मिन् महाविद्यालये प्रवेशं दापयितुं सफलो जात: |
  2. करुणापरो गृही तस्मै आश्रयं प्रायच्छत् |
  3. परमर्थकार्श्येण पीडित: स: बसयानम् विहाय पदातिरेव प्राचलत् |
  4. कश्चन निर्धन: जन: भूरि परिश्रम्य किंचिद् वित्तमुपार्जित्वान् |
  5. एवं विचार्य स: पार्श्वस्थिते ग्रामे रात्रिनिवासं कर्तुं किंचिद् गृहस्थमुपागत: |
  6. निशान्धकारे प्रसृते विजने प्रदेशे पदयात्रा न शुभावहा |
  7. एकदा स: पिता तनुजस्य रुग्णतामाकर्ण्य व्याकुलो जात: |
  8. पदातिक्रमेण संचलन् सायं समये अपि असौ गंतव्याद् दूरे आसीत् |

प्रश्न – 18. अधोलिखितवाक्येषु रेखांकितपदानां प्रसंगानुकूलम् उचितार्थम् चित्वा लिखत | (केवलप्रश्नत्रयम्) (1 x 3 = 3) 

1.दुर्वहं अत्र जीवितं जातं प्रकृति: एव शरणम् |

(क) दुष्टम्

(ख) दु:खम्

(ग) कठिनम्

2. कृषक: तं वृषभं तोदनेन नुद्यामन: अवर्तत |

(क) दानेन

(ख) कष्टप्रदानेन

(ग) भयेन

3. सा पुत्रौ चपेटिकया प्रहृत्य जगाद |

(क) अवदत्

(ख) अधावत्

(ग) अचिन्तयत्

4. गुह्यं आख्याति |

(क) खादति

(ख) भक्षयति

(ग) वदति

4 thoughts on “Sanskrit Sample paper 2025 class 10”

Leave a Comment