Sanskrit Sample paper 2024 class 10
यह प्रश्न पत्र CBSE परीक्षा 2024 पर आधारित एक sample paper है | इस प्रश्न-पत्र के द्वारा आप आगामी board परीक्षा की तैयारी के लिए सहायता ले सकते हैं | मुझे पूर्ण विश्वास है कि इस प्रश्न-पत्र (Sanskrit Sample paper 2024 class 10) से आपको निश्चित रूप से फायदा होगा |
कक्षा – 10 संस्कृत code – 122
समय – 3 Hours अंक – 80
सभी प्रश्नों के उत्तर अन्त में दिए गए हैं |
सामान्यनिर्देशा : General instructions.
- अस्मिन् प्रश्नपत्रे चत्वार: खण्डा: सन्ति |
- Four parts in this question paper.
- उत्तराणि संस्कृतेन एव लेखनीयानि |
- Write answer in Sanskrit only.
प्रश्नपत्र-स्वरुपम्-(Sanskrit Sample paper 2024 class 10)
क – अपठितावबोधनम् – 10 अंका:
ख – रचनात्मक-कार्यम् – 15 अंका:
ग – अप्रयुक्त-व्याकरणम् – 25 अंका:
घ – पठिताबोधनम् – 30 अंका:
खण्ड: ‘क’ अपठित-अवबोधनम्
प्रश्न – 1. अधोलिखितं गद्याशं पठित्वा प्रदत्त प्रश्नानां उत्तराणि संस्कृतेन लिखत | (10)
ये जना: दृढप्रतिज्ञा: भवन्ति तेषां कृते व्रतमेव सर्वप्रमुखं भवति | संसारे ईदृशा: जना: अभवन् ये जीवनस्य अन्तिमे क्षणे अपि सत्यस्य आश्रयं नात्यजन् | स्वात्मन: विपर्यये किंचिद् कर्म अपि नाकुर्वन् | अनेकासु विपत्तिषु अपि नृप: हरिश्चन्द्र: सत्यास्यश्रयं नात्यजन् | महाराणा प्रताप: आजीवनं वने वने अभ्रमत् | स्वभ्रायां बालौ च बुभुक्षया निष्प्राणान्निव पश्यनपि स: तेषां वार्तां न अमन्यत | महाराणा प्रतापस्य पत्नी पुत्रौ च तस्मै पराधीनं जीवनं जीवितुम् अकथयन् | आधुनिके काले महर्षि दयानन्द: अपि सत्यस्य पालने वेदप्रचारे च स्वजीवनस्य बलिदानम् अकरोत् परं सत्यस्य मार्गं नात्यजत् | एवमेव पुण्यभूमिभारते अनेके ईदृशा: महापुरुषा: अजायन्त, ये स्वजन्मना इमां भूमिं पवित्रताम् अकुर्वन् | अद्यापि तेषां चरण-चिह्नानि मानवान् सत्याचरणम् प्रति प्रेरयन्ति |
अ – एकपदेन उत्तरत | (केवल प्रश्नद्वयम्) (1 x 2 = 2)
- महर्षि दयानन्द: कस्य बलिदानम् अकरोत्?
- क: नृप: सत्यास्यश्रयं नात्यजन्?
- क: आजीवनं वने वने अभ्रमत्?
आ – पूर्ण वाक्येन उत्तरत | (केवल प्रश्नद्वयम्) (2 x 2 = 4)
- दृढप्रतिज्ञा: जनानां कृते किम् सर्वप्रमुखं भवति?
- अद्यापि किम् मानवान् सत्याचरणम् प्रति प्रेरयन्ति?
- के महाराणा प्रतापं पराधीनं जीवनं जीवितुम् अकथयन्?
इ – अस्य अनुच्छेदस्य कृते उपयुक्तं शीर्षकं संस्कृतेन लिखत | (1)
ई – यथानिर्देम् उत्तरत | (केवल प्रश्नत्रयम्) (1 x 3 = 3)
1. “अकरोत्” इत्यस्या: क्रियाया: कर्तृपदं किम्?
(अ) महर्षि दयानन्द:
(ब) महाराणा प्रताप:
(स) हरिश्चन्द्र:
2. “नृप: हरिश्चन्द्र:” अनयो: पदयो: विशेषणपदं किम्?
(अ) हरिश्चन्द्र:
(ब) नृप:
(स) नृप: हरिश्चन्द्र:
3. “पत्नीम्” इत्यस्य पदस्य क: पर्यायपदं गद्याांशे प्रयुक्तम्?
(अ) नृप:
(ब) भार्याम्
(स) जायाम्
4. अनुच्छेदे “असत्यस्य” पदस्य किम् पदं विपर्यय आगत:?
(अ) सत्यस्य
(ब) तेषाम्
(स) वार्ताम्
खण्ड: ‘ख’
रचनात्मकं कार्यम् Creative work
प्रश्न – 2. भवती विद्योत्तमा अस्ति | भवत्या: विद्यालये पर्यावरण-दिवस: मानित: | स्वसखीम् अस्मिताम् प्रति लिखितम् इदं पत्रं मंजूषापद सहायतया पूरयित्वा पुन: लिखत | (1/2 x 10 = 5)
परीक्षा-भवनात्
दिनांक: …………
प्रिये (i) …………….,
……………. (ii) नमस्ते |
अत्र कुशलं तत्रास्तु | ह्य: एव मम विद्यालये (iii) …………… मानित: | सर्वे छात्रा: (iv) ……….. आसन्, छात्रा: अध्यापकै: सह पादपानां (v) ……….. व्यस्ता: आसन् | मम विद्यालयस्य परिसरे तु (vi) ……….प्रसृत: | एकादश-द्वादशकक्षाया: छात्रा: विद्यालयात् बहि: गत्वा (vii) ……….. उभयत: पादपान् (viii) ………… | सर्वे जना: अस्माकं विद्यालयस्य छात्राणाम् प्रयासस्य (ix) ……….. कृतवन्त: | यदि सर्वे विद्यालया: एवं कुर्यु: तर्हि (x) ………… रक्षणं स्यात् |
भवदीया सखी
विद्योत्तमा
मंजूषा
हरीतिमा, उत्साहिता, प्रशंसाम्, आरोपितवन्त:, अस्मिते!, मार्गम्, आरोपणे, सस्नेहम्, पर्यावरणदिवस:, वातावरणस्य | |
प्रश्न – 3. प्रदत्तचित्रं दृष्ट्वा मंजूषायां प्रदत्तशब्दानां सहायतया पञ्च वाक्यानि संस्कृतेन लिखत | (1 x 5 = 5)
(यहाँ पर चुनाव से सम्बन्धित मतदान केंद्र “Polling booth” का चित्र दिया हुआ है |)
मंजूषा
भारतस्य, जना:, निर्वाचन-आयोग:, बालिका:, बालका:, अष्टादशवर्षीया:, निर्वाचन-पेटिकाम्, पिंजम्, नुदन्ति, हरितं विद्युत्, मसी-पात्रम्, मतदाता-पत्रम् | |
अथवा
मंजूषाप्रदत्तशब्दानां सहायतया निम्नलिखितं विषयम् अधिकृत्य न्यूनातिन्यूनं पंचभि: संस्कृतवाक्यै: एकम् अनुछेदं लिखत | (1 x 5 = 5)
“दूरदर्शनम्”
मंजूषा
जना:, पश्यन्ति, दूरदर्शनम्, समाचारा:, समसामयिक्य:, घटना:, देश-विदेशस्य, मनोरंजनम्, ज्ञान-विज्ञानं, समाचार-वाचका:, दर्शका: | |
-
Sanskrit anuvad previous Question paper
-
CBSE Sanskrit paper-2023 class-10
-
संधि से सम्बन्धित प्रश्न class -10
प्रश्न – 4. अधोलिखितानि वाक्यानि संस्कृतभाषया अनूद्य लिखत | (केवलपञ्चवाक्यानि ) (1 x 5 = 5)
- विद्यालय के चारों ओर मार्ग हैं |
- तुम माँ के साथ रसोई में काम करती हो |
- राधा ने भोजन किया |
- कल गणतंत्र दिवस था |
- यमुना नदी दिल्ली में बहती है |
- सदा सच बोलो |
- बालिका मित्रों के साथ खेलती है |
खण्ड: ‘ग’
अनुप्रयुक्त व्याकरणम् Grammar
प्रश्न – 5. अधोलिखितेषु वाक्येषु रेखांकित पदेषु संधिम् संधिविच्छेदं वा कुरुत | (केवल प्रश्नचतुष्ट्यम्) (1 x 4 = 4)
- एकान्ते कान्तारे क्षणमपि में स्यात् संचरणम् |
- सकलै: विद्यार्थिभि: समयस्य सदुपयोग: करणीय: |
- कश्चित् उद्दण्ड:बालक: भ्रमन् आसीत् |
- किंचित्कालं नय माम् अस्मान्नगरात् बहुदूरम् |
- अश्व: + चेद् धावने वीर: |
प्रश्न – 6. अधोलिखितेषु वाक्येषु रेखांकित पदानां समासं विग्रहं वा प्रदत्तविकल्पेभ्य: चित्वा लिखत | (केवल प्रश्नचतुष्ट्यम्) (1 x 4 = 4)
1. अयि चल बन्धो! खगकुलकलरव: गुंजितवनदेशम् |
(क) खगकुलानाम् कलरव:
(ख) खगकुल कलरव:
(ग) खगकुललानि कलरव:
2. पीतदुग्ध: बालक: प्रसन्न: अस्ति |
(क) पीतं दुग्धं
(ख) पीतं दुग्धं यया सा
(ग) पीतं दुग्धं येन स:
3. प्रस्तरस्य तले लतातरूगुल्मा न भवन्तु पिष्टा |
(क) प्रस्तरतले
(ख) प्रस्तरतलम्
(ग) प्रस्तरम् तलम्
4. प्रस्तरस्य तले लतातरूगुल्मा न भवन्तु पिष्टा |
(क) लता: तरव: गुल्मा: च
(ख) लता: च तरूगुल्मा:
(ग) लता: च तरव: च गुल्मा: च
5. मानवाय जीवनम् कामये न जीवन्मरणम् |
(क) मानवजीवनम्
(ख) मानव: जीवनम्
(ग) मानवजीवनाय
प्रश्न – 7. अधोलिखितेषु वाक्येषु रेखांकित पदनां प्रकृति-प्रत्ययौ संयोज्य विभज्य वा उचितम् उत्तरं विकल्पेभ्य: चित्वा लिखत | (केवल प्रश्नचतुष्ट्यम्) (1 x 4 = 4)
1. हरिततरुणाम् ललितलतानां माला रमणीया |
(क) रमण + ईया
(ख) रमणीय + टाप्
(ग) रमणी + या
2. वाष्पयानमाला सन्धावति वितरन्ती ध्वानम् |
(क) वितरन् + ङीप्
(ख) वितरत् + ङीप्
(ग) वितरन्त् + ङीप्
3. कुसुमावलि: समीर चालिता स्यान्मे वरणीया |
(क) चालित + तल्
(ख) चल + ता
(ग) चालित + टाप्
4. राजसिंह: बुद्धिमान् राजपुत्र: आसीत् |
(क) बुद्धि + मान्
(ख) बुद्धि + मतुप्
(ग) बुद्धि + वतुप्
5. तपोवनवासिन: देवी इति नाम्ना आह्वयन्ति |
(क) देव + ङीप्
(ख) देव + ई
(ग) देवि + ङीप्
Active voice to passive voice:-
प्रश्न – 8. वाच्यानुसारम् उचितपदै: रिक्तस्थानानि पूरवयित्वा अधोलिखितं संवादं पुन: लिखत | (केवल प्रश्नत्रयम्) (1 x 3 = 3)
1. निखिल: – आदित्य! किम् त्वया ………….. पठ्यते?
(क) गीता
(ख) गीताम्
(ग) गीता:
2. आदित्य: -न अहं तु स्वपाठं ……………. |
(क) पठ्यते
(ख) पठामि
(ग) पठति
3. निखिल: – शोभनम्! त्वं कदा गीतां ……………….?
(क) पठति
(ख) पठसि
(ग) पठ्यते
4. आदित्य: …………….तु प्रात:काले एव गीताश्लोकान् अभ्यास: क्रियते |
(क) त्वया
(ख) मया
(ग) अहम्
प्रश्न – 9 कालबोधकै: अधोलिखित-वाक्यानि पूरयत | (केवलप्रश्नचतुष्ट्यम्) (1 x 4 = 4)
- अहं दियां (12:30) ……………….. भोजनं करोमि |
- तदन्तरं (05:45) ………….. खेलनाय गच्छामि |
- रात्रौ (08:30) ………….. मनोरंजनाय दूरदर्शनं पश्यामि |
- दूरदर्शनं दृष्ट्वा (09:15) ………….. पठनं करोमि |
- रात्रौ (10:45) ……………. अहं स्वपिमि |
प्रश्न – 10 मञ्जूषायां प्रदतै: उचितै: अव्ययपदै: अधोलिखित-वाक्येषु रिक्तस्थानानि पूरयत | (केवलप्रश्नत्रयम् ) (1 x 3 = 3)
- ………… रविवासर: आसीत् |
- अहं ………..अध्ययनं कृतवती |
- बुद्धिर्बलवती तन्वि सर्व कार्येषु ……….|
- रे रे धूर्त त्वया दत्तं मह्यं व्याघ्रत्रयं ……..|
मंजूषा
अद्य, ह्य:, पुरा, सर्वदा |
प्रश्न – 11. अधोलिखित-वाक्येषु रेखांकित-अशुद्धपदाय उचितं पदं चित्वा वाक्यानि पुन: लिखत | (केवलप्रश्नत्रयम्) (1 x 3 = 3)
1. त्वं चाकलेहं खादति |
(क) खादामि
(ख) खादसि
(ग) खादथ:
2. स: वृक्षा: सिंचति |
(क) वृक्षान्
(ख) वृक्ष:
(ग) वृक्षानि
3. भवान् ह्य: कुत्र अस्ति |
(क) सन्ति
(ख) आसन्
(ग) आसीत्
4. माता पिता च ग्रामं आगच्छन्ति?
(क) गमिष्यति
(ख) आगच्छ्त:
(ग) आगच्छति
खण्ड: ‘घ’
पठितावबोधनम् Read understanding (Sanskrit Sample paper 2024 class 10)
प्रश्न – 12. अधोलिखितं गद्याशं पठित्वा प्रदत्तप्रश्नानां उत्तराणि संस्कृतेन लिखत | (5)
कश्चन निर्धनो जन: भूरि परिश्रम्य किंचित् वित्तमुपार्जितवान् | तेन वित्तेन स्वपुत्रम् एकस्मिन् महाविद्यालये प्रवेशं दापयितुं सफलो जात: | तत्तनय: तत्रैव छात्रावासे निवसन् अध्ययने संलग्न: समभूत् | एकदा स पिता तनूजस्य रुग्णतामाकर्ण्य व्याकुलो जात: पुत्रं द्रष्टुम् च प्रस्थित: | परमर्थकार्श्येन पीडित: स बसयानं विहाय पदातिरेव प्राचलत् | पदातिक्रमेण सञ्चलन् सायं समय: अपि असौ गंतव्याद् दूरे आसीत् | निशान्धकारे प्रसृते विजने प्रदेशे पदयात्रा न शुभावहा ‘इति विचार्य स पार्श्वस्थिते ग्रामे रात्रिनिवासं कर्तुं कंचिद् गृहस्थमुपागत: | करुणापरो गृही तस्मै आश्रयं प्रायच्छत् |
अ. एकपदेन उत्तरत – (केवलप्रश्नद्वयम्) (1/2 x 2 = 1)
- क: जन: भूरि परिश्रम्य किंचित् वित्तम् उपार्जितवान्?
- पिता कस्य रुग्णतामाकर्ण्य व्याकुलो जात:?
- अर्थकार्श्येन पीडित: स: कं विहाय पदातिरेव प्राचलत्?
आ. पूर्णवाक्येन उत्तरत – (केवलप्रश्नद्वयम्) (1 x 2 = 2)
- निर्धन: स्वपुत्रं कुत्र प्रवेशं दापयितुं सफल: जात:?
- स: रात्रिनिवासं कर्तुं कं प्रति उपागत:?
- निशान्धकारे प्रसृते कुत्र पद यात्रा न शुभावहे?
इ . निर्देशनुसारं उत्तरत – (केवलप्रश्नद्वयम्) (1 x 2 = 2)
- “उपार्जितवान्” अत्र कर्तृपदं किम्?
- “निर्धन: जन:” अत्र विशेषणपदं किम्?
- “पुत्र” इति पदस्य किम् पर्यायपदं गद्यांशे प्रयुक्तम्?
प्रश्न –13. अधोलिखितं पद्याशं पठित्वा प्रदत्त प्रश्नानां उत्तराणि संस्कृतेन लिखत | (5)
गुणी गुणं वेत्ति न वेत्ति निर्गुणो बली बलं वेत्ति न वेत्ति निर्बल: |
पिको वसन्तस्य गुणं न वायस: करी च सिहंस्य बलं न मूषक: ||
अ. एकपदेन उत्तरत- (केवलप्रश्नद्वयम्) (1/2 x 2 = 1)
- गुणी किम् वेत्ति?
- सिहंस्य बलं क: न वेत्ति?
- बली किम् वेत्ति?
आ. पुर्णवाक्येन उत्तरत- (केवलप्रश्नद्वयम्) (1 x 2 = 2)
- पिको कस्य गुणं जानाति?
- मूषक: किम् न जानाति?
- बलं क: जानाति?
इ . निर्देशनुसारं उत्तरत- (केवलप्रश्नद्वयम्) (1 x 2 = 2)
- “हस्ती” इति पदस्य पर्यायपदं किम्?
- “सबल:” इति पदस्य विपर्ययपदं किम्?
- “सिहंस्य” अत्र का विभक्ति: ?
प्रश्न –14. अधोलिखितं नाट्यांशं पठित्वा प्रदत्त प्रश्नानां उत्तराणि संस्कृतेन लिखत | ( 5 )
सिंह: – (क्रोधेन गर्जन्) भो:! अहं वनराज: | किम् भयं न जायते ? किमर्थं मामेवं तुदन्ति सर्वे मिलित्वा ?
एक: वानर: – यत: त्वं वनराज: भवितुं तु सर्वथा अयोग्य: | राजा तु रक्षक: भवति परं भवान् तु भक्षक: | अपि च स्वरक्षायामपि समर्थ: नासि तर्हि कथमस्मान् रक्षिष्यसि ?
अन्य: वानर: – किम् न श्रुता त्वया पंचतंत्रोक्ति: –
यो न रक्षति वित्रस्तान् पीड्यमानान्परै: सदा |
जन्तून् पार्थिवरूपेण स कृतान्तो न संशय: ||
काक: – आम्, सत्यं कथितं त्वया | वस्तुत: वनराज: भवितुं तु अहमेव योग्य: |
पिक: – (उपहसन्) कथं त्वं योग्य: वनराज: भवितुं, यत्र तत्र ‘का-का’ इति कर्कशध्वनिना वातावरणमाकुलीकरोषि | न रूपं न ध्वनिरस्ति | कृष्णवर्णं मेध्यामेध्यभक्षकं त्वां कथं वनराजं मन्यामहे वयम् ?
अ. एकपदेन उत्तरत- (केवलप्रश्नद्वयम्) (1/2 x 2 = 1)
- क: क्रोधेन गर्जन्?
- क: रक्षक: भवति?
- ‘किमर्थं मामेवं तुदन्ति सर्वे मिलित्वा?’ इति क: कथयति?
आ. पूर्णवाक्येन उत्तरत—( केवलप्रश्नद्वयम्) (1 x 2 = 2)
- ‘का-का’ इति कर्कशध्वनि: क: करोति?
- पिक: काकं प्रति किम् वदति?
- काक: किम् वदति?
इ. निर्देशनुसारं उत्तरत- (केवलप्रश्नद्वयम्) (1 x 2 = 2)
- “राजा” इत्यस्य कर्तृपदस्य क्रियापदं किम् प्रयुक्तम्?
- “किमर्थं मामेवं तुदन्ति सर्वे मिलित्वा:” अत्र अव्ययपदं किम्?
- “कपि” इति पदस्य गद्यांशे पर्यायपदं किं प्रयुक्तम्?
इस प्रश्न पत्र के उत्तर अगले लेख में है तथा यहाँ पर click करे
प्रश्न – 15. रेखांकितपदानि आधृत्य प्रश्ननिर्माणं कुरुत (केवलप्रश्नचतुष्ट्यम्) (1 x 4 = 4)
- तनय: छात्रावासे निवसन् अध्ययने संलग्न: अभूत् |
- पिता पुत्राय बाल्ये विद्याधनं यच्छति |
- संसारे विद्वांस: ज्ञानचक्षुभि: नेत्रवंत: कथ्यन्ते |
- चौर: गृहाभ्यंतरम् प्रविष्ट: |
- आचार: प्रथमो धर्म: इत्येतद् विदुषां वच: |
प्रश्न – 16. मंजूषात: समुचितपदानि चित्वा अधोलिखितश्लोकस्य अन्वय पूरयित्वा पुन: लिखत | (1 x 4 = 4)
पिता यच्छति पुत्राय बाल्ये विद्याधनं महत् |
पिताsस्य किं तपस्तेपे इत्युक्तिस्तत्कृतज्ञता ||
अन्वय: – पिता (i)………….. बाल्ये महत् विद्याधनं (ii) …………….| अस्य पिता (iii) …………. तप: तेपे इत्युक्ति: (iv)………… |
मञ्जूषा
किम्, पुत्राय, तत्कृतज्ञता, यच्छति |
अथवा
मञ्जूषाया: सहायतया श्लोकस्य भावार्थ: रिक्तस्थानानि पूरयित्वा पुन: लिखत | (1 x 4 = 4)
आचार: प्रथमो धर्म: इत्येतद् विदूषाम् वच: |
तस्माद् रक्षेत् सदाचारं प्राणेभ्य: अपि विशेषत: ||
भावार्थ: – अस्य भाव: अस्ति यत् सदाचार: जनानां (i) …………धर्म: अस्ति, इति (ii) …………. कथयन्ति अतएव जनै: (iii) ………….. रक्षा प्राणेभ्य: अपि (iv) ………….करणीया |
मञ्जूषा
विद्वांस:, विशेषतया, प्रथम:, सदाचारस्य |
प्रश्न – 17. अधोलिखितं कथाशं समुचित-क्रमेण लिखत | (1/2 x 8 = 4)
- तेन वित्तेन स्वपुत्रम् एकस्मिन् महाविद्यालये प्रवेशं दापयितुं सफलो जात: |
- करुणापरो गृही तस्मै आश्रयं प्रायच्छत् |
- परमर्थकार्श्येण पीडित: स: बसयानम् विहाय पदातिरेव प्राचलत् |
- कश्चन निर्धन: जन: भूरि परिश्रम्य किंचिद् वित्तमुपार्जित्वान् |
- एवं विचार्य स: पार्श्वस्थिते ग्रामे रात्रिनिवासं कर्तुं किंचिद् गृहस्थमुपागत: |
- निशान्धकारे प्रसृते विजने प्रदेशे पदयात्रा न शुभावहा |
- एकदा स: पिता तनुजस्य रुग्णतामाकर्ण्य व्याकुलो जात: |
- पदातिक्रमेण संचलन् सायं समये अपि असौ गंतव्याद् दूरे आसीत् |
प्रश्न – 18. अधोलिखितवाक्येषु रेखांकितपदानां प्रसंगानुकूलम् उचितार्थम् चित्वा लिखत | (केवलप्रश्नत्रयम्) (1 x 3 = 3)
1.कालायसचक्रम् सदा वक्रं भ्रमति |
(क) चक्रम्
(ख) दूषितम्
(ग) कुटिलम्
2. त्वं मानुषात् अपि विभेषि |
(क) वानरात्
(ख) मानवात्
(ग) दानवात्
3. सा पुत्रौ चपेटिकया प्रहृत्य जगाद |
(क) अवदत्
(ख) अधावत्
(ग) अचिन्तयत्
4. इदानीं वायुमंडल भृशं दूषितं अस्ति |
(क) स्वल्पम्
(ख) भाग्यम्
(ग) अधिकम्
3 thoughts on “Sanskrit Sample paper 2024 class 10”