Sanskrit Annual Sample paper Class-7
Sanskrit Paper Class-7 for annual exam
किसी भी परीक्षा की तैयारी करने से पहले हमें यह ज्ञात होना चाहिए कि परीक्षा में आने वाले प्रश्न किस प्रकार के होते हैं | एक बार प्रश्न पूछने के तरीके की जानकारी होने के बाद हम अच्छे अंक प्राप्त कर सकते हैं | अब हम वार्षिक परीक्षा के (Sanskrit Annual Sample paper Class-7) एक आदर्श प्रश्न पत्र को देखते हैं | इस प्रश्न पत्र के उत्तर अगले अंक में दिए गए है |
आदर्श प्रश्न-पत्रम्
कक्षा – 7
Subject – Sanskrit
समय: – 2:30 होरा अंका: – 60
खण्ड- क
अपठित-अवबोधनम् (8 अंका:)
प्रश्न: 01. अधोलिखितं अनुच्छेदं पठित्वा प्रश्नानाम् उत्तराणि लिखत –
पुस्तकालय: शब्द: पुस्तक + आलय: पदाभ्यां निर्मित:, तस्य अर्थ: – पुस्तकानाम् गृहम् | अस्माकं पुस्तकालय: नगरस्य रमणीय-स्थाने वर्तते | अस्य भवनं विशालं सुन्दरं च अस्ति | अस्मिन् पुस्तकालये दश-सहस्राणि पुस्तकानि सन्ति तथा च अत्र अनेकानि पत्राणि प्रतिदिनं आगच्छन्ति | अनेका: जना:, छात्रा: च आगत्य स्वाध्ययनं कुर्वन्ति | अस्माकं ज्ञान-वर्धनाय बौद्धिकविकासाय च पुस्तकालयानां महती भूमिका अस्ति | पुस्तकालये पुस्तकानाम् अभाव: कदा अपि न अवलोकित: |
I. एकपदेन उत्तरत – (1×3=3)
(क) पुस्तकालय: शब्द: काभ्यां पदाभ्यां निर्मित: अस्ति ?
(ख) दश-सहस्राणि पुस्तकानि कुत्र सन्ति ?
(ग) पुस्तकालये केषाम् अभाव: कदा अपि न अवलोकित: ?
II. पूर्ण-वाक्येन उत्तरत – (2×1=2)
(क) पुस्तकालय: इत्यस्य क: अर्थ: ?
(ख) अस्माकं कृते किमर्थं पुस्तकालयानां महती भूमिका अस्ति ?
III. यथानिर्देशं उत्तरत – (2×1=2)
(i) “अत्र अनेकानि पत्राणि प्रतिदिनं आगच्छन्ति” अस्मिन् वाक्ये क्रिया-पदम् किम् ?
(अ) अनेकानि
(ब) प्रतिदिनं
(स) आगच्छन्ति
(द) अत्र
(ii) “अस्य भवनं विशालं सुन्दरं च अस्ति” अस्मिन् वाक्ये विशेषण-पदम् किम् ?
(अ) अस्य
(ब) भवनं
(स) विशालं सुन्दरं
(द) च
(iii) “अस्य भवनं विशालं सुन्दरं च अस्ति” अस्मिन् वाक्ये कर्तृ-पदम् किम् ?
(अ) अस्य
(ब) विशालं
(स) भवनं
(द) अस्ति
IV. अस्य अनुच्छेदस्य कृते उपयुक्तं शीर्षकं लिखत | (1×1=1)
खण्ड-ख (Sanskrit Annual Sample paper Class-7)
रचनात्मक-कार्यम् (12 अंका:)
प्रश्न: 02. चित्रं दृष्ट्वा मञ्जूषाया: सहायतया चत्वारि वाक्यानि लिखत – (2×4=8)
( यहाँ पर एक चित्र दिया गया है जिसमे बच्चे खेल रहे है सुबह का समय है )
खगा:, विकसन्ति, कमलानि, उदिते, क्रीडन्ति, बाला:, कूजन्ति, चित्रपतंगा:, सूर्य:, डयन्ते | |
प्रश्न: 03. अधोलिखितेषु पदेषु मेलनं कृत्वा वाक्यानि रचयत – (1×4=4)
(i) अहम् कन्दुकेन पठसि
(ii) त्वं संस्कृतं खेलति
(iii) स: फलं गच्छामि
(iv) तौ विद्यालयं खादत:
खण्ड-ग
अनुप्रयुक्य-व्याकरणम् (18 अंका:)
प्रश्न: 04. उचित-शब्दरूपम् चित्वा रिक्तस्थानानि पूरयत – (1×4=4)
(i) ………. नम: | (हरिम् / हरये)
(ii) ……….. उपरि कृषिक्षेत्राणि सन्ति | (ग्रामस्य / ग्रामाम्)
(iii) ………..उभयत: पुत्रौ स्त: | (पितरम् / पितु:)
(iv) तत्र अनेका: ……… सन्ति | (जना:/ जनेन)
प्रश्न: 05. उचित-मेलनं कुरुत – (1×3=3)
(i) कौटिल्येन चिकित्साशास्त्रे
(ii) आर्यभट्ट: अर्थशास्त्रं रचितम् |
(iii) चरक-सुश्रुतयो: योगदानम् शुन्यस्य अविष्कर्ता |
प्रश्न: 06. मञ्जूषात: अंकानां कृते पदानि चिनुत – (1×4=4)
(i) 22
(ii) 16
(iii) 35
(iv) 12
द्वादश, षोडश, द्वाविंशति:, पञ्चत्रिंशत् |
प्रश्न: 07. अधोलिखितानां शब्दानां विभक्ति-वचनं लिखत – (1×4=4)
(i) बन्धु: …………… ………………. |
(ii) देशान् ………….. ………………. |
(iii) घृणाया: ………….. ………………. |
(iv) कुटुम्बकम् …………… ………………. |
प्रश्न: 08. समानार्थक-पदानि योजयत – (1×3=3)
(i) कुटुम्बकम् सम्पूर्णे |
(ii) निखिले त्यक्त्वा |
(iii) अपहाय परिवार: |
खण्ड – घ
पठित-अवबोधनम् (22 अंका:)
प्रश्न: 09. अधोलिखितं गद्यांशं पठित्वा प्रश्नानाम् उत्तराणि लिखत – (5)
परन्तु अधुना निखिले संसारे कलहस्य अशान्ते: च वातावरणम् अस्ति | मानवा: परस्परं न विश्वसन्ति | ते परस्य कष्टं स्वकीयं कष्टं न गणयन्ति | अपि च समर्था: देशा: असमर्थान् देशान् प्रति उपेक्षा-भावं प्रदर्शयन्ति, तेषाम् उपरि स्वकीयं प्रभुत्वं स्थापयन्ति | संसारे सर्वत्र विद्वेषस्य, शत्रुताया: हिंसाया: भावना दृश्यते | देशानां विकास: अपि अवरुद्ध: भवति |
I. एकपदेन उत्तरत – (1×1=1)
(क) के परस्परं न विश्वसन्ति ?
(ख) केषां विकास: अपि अवरुद्ध: भवति ?
II. पूर्ण-वाक्येन उत्तरत – (1×2=2)
(क) अधुना निखिले संसारे किम् अस्ति ?
(ख) के उपेक्षा-भावं प्रदर्शयन्ति ?
III. यथानिर्देशं उत्तरत – (2×1=2)
(i) “मानवा: परस्परं न विश्वसन्ति” अस्मिन् वाक्ये कर्ता क: अस्ति ?
(अ) परस्परं
(ब) विश्वसन्ति
(स) मानवा:
(द) न
(ii) “देशान् प्रति उपेक्षा-भावं प्रदर्शयन्ति” अस्मिन् वाक्ये अव्ययपदम् किम् अस्ति ?
(अ) देशान्
(ब) प्रति
(स) उपेक्षा-भावं
(द) प्रदर्शयन्ति
(iii) “ते परस्य कष्टं स्वकीयं कष्टं न गणयन्ति” अस्मिन् वाक्ये क्रियापदम् किम् अस्ति ?
(अ) गणयन्ति
(ब) परस्य
(स) ते
(द) स्वकीयं
प्रश्न: 10. अधोलिखितं पद्यांशं पठित्वा प्रश्नानाम् उत्तराणि लिखत – (5)
विद्या नाम नरस्य रूपमधिकं प्रच्छन्नगुप्तं धनम् , विद्या भोगकरी यश: सुखकरी विद्या गुरूणाम् गुरु: |
विद्या बंधुजनो विदेशगमने विद्या परा देवता , विद्या राजसु पूज्यते न हि धनं विद्या-विहीन: पशु: ||
I. एकपदेन उत्तरत – (1×1=1)
(क) विद्या नाम कस्य रूपमधिकम् ?
(ख) विद्या-विहीन: क: ?
II. पूर्ण-वाक्येन उत्तरत – (1×2=2)
(क) विद्या बंधुजन: कदा भवति ?
(ख) राजसु का पूज्यते?
III. यथानिर्देशं उत्तरत – (2×1=2)
(i) “विद्या राजसु पूज्यते न हि धनं” अस्मिन् वाक्ये अव्ययपदम् किम् अस्ति ?
(अ) विद्या
(ब) हि
(स) धनं
(द) पूज्यते
(ii) “प्रच्छन्नगुप्तं धनम्” अत्र विशेषणपदम् किम् ?
(अ) प्रच्छन्नगुप्तं
(ब) धनम्
(स) प्रच्छन्न
(द) गुप्तं
(iii) “गुरूणाम्” अत्र का विभक्ति: ?
(अ) प्रथमा
(ब) सप्तमी
(स) षष्ठी
(द) पञ्चमी
प्रश्न बनाना –
प्रश्न: 11. रेखांकित-पदानां प्रश्न-निर्माणं कुरुत – (1×3=3)
(क) कालेन चटकाया: संतति: जाता |
(ख) गजस्य वधेनैव मम दुखं अपसरेत् |
(ग) चटकाया: नीडं भुवि अपतत् |
प्रश्न: 12. विलोम-पदानि योजयत – (1×3=3)
(i) शत्रुताया: (क) लघुचेतसाम्
(ii) अपहाय (ख) मित्रताया:
(iii) उदारचरितानाम् (ग) गृहीत्वा
प्रश्न: 13. उदाहरणानुसारम् “स्म” शब्दं योजयित्वा भूतकालिक-क्रियां लिखत – (6)
यथा – अवसत् वसति स्म |
(i) अपठत् …………… |
(ii) अपतत् …………… |
(iii) अनयत् …………… |
(iv) अवदत् …………… |
(v) अत्रोटयत् ……………. |
(vi) अपृच्छत् ……………. |