Sanskrit Annual Exam-2025 Class-8

Sanskrit Annual Exam-2025 Class-8

यह प्रश्न पत्र Sanskrit Annual Exam-2025 Class-8 (Evening) में आया हुआ है | इसमें कुल 13 प्रश्न है | इसकी सहायता से आप अपने annual exam (Term-2) की तैयारी कर सकते है | इन सभी प्रश्नों के Answers अगले अंक (blog) में दिए गए हैं |

प्रश्न :- 1. अधोलिखितम अनच्छेदं पठित्वा दत्तानां प्रश्नानाम् उत्तराणि लिखत –

पुष्पाणि अतीव मनोहराणि भवन्ति | अस्माकं राष्ट्रीय-पुष्पं कमलम् अस्ति | अस्य उत्पत्ति: पंकात् भवति | अतएव अस्य नाम पंकजम् अपि प्रसिद्धं जातम् | इदं सर्वेषां मनांसि आह्लादयति सर्वेभ्य: च रोचते | कमलं निजसौन्दर्येण सुगन्धिना च वैशिष्ट्यं प्राप्नोति | तस्योपरि भ्रमरा: गुञ्जन्ति | पंके प्रभवति कमलं पंकाद् कदापि न लिप्तं भवति | कमलस्य पत्रे स्थिता: जलबिन्दव: मुक्ता: इव दृश्यन्ते | सरोवरे विकसितानां कमलानां शोभा दर्शनीया भवति | यदा यदा जलस्तरं वर्धते तदा तदा कमलम् अपि उपरि गच्छति | इदं सूचयति यत् संसारे नर: शुभकार्याणि कुर्वन् कदाचिदपि मलिनतया लिप्त: न भवेत् |

अ. एकपदेन उत्तरत – (केवलप्रश्नत्रयम्) 3×1=3

(i) अस्माकं राष्ट्रीय-पुष्पं किम् अस्ति ?

(ii) कस्य उत्पत्ति: पंकात् भवति ?

(iii) कानि अतीव मनोहराणि भवन्ति ?

(iv) कमलस्योपरि के गुञ्जन्ति ?

आ. पर्णू र्णवाक्येन उत्तरत – ( केवलप्रश्न-एकम्) 1×2=2

(i) कमलस्य पत्रे स्थिता: जलबिन्दव: कीदृशा: दृश्यन्ते ?

(ii) सरोवरे विकसितानां कमलानां शोभा कीदृशी  भवति ?

स. यथानिर्देशम् उत्तरत – (केवलप्रश्नद्वयम्) 2×1=2

(i) “पुष्पाणि अतीव मनोहराणि भवन्ति” अत्र अव्ययपदं किम् ?

(क) अतीव

(ख) भवन्ति

(ग) पुष्पाणि

(घ) मनोहराणि

(ii) “पुष्पाणि अतीव मनोहराणि भवन्ति” अत्र कर्तृपदं किम् ?

(क) पुष्पाणि

(ख) मनोहराणि

(ग) अस्ति

(घ) भवन्ति

(iii) “कमलम्” पदस्य पर्यायपदं गद्यांशे किम् प्रयुक्तम् ?

(क) पुष्पम्

(ख) जलजम्

(ग) पंजम्

(घ) वारिजम्

(iv) अस्य अनुच्छेदस्य शीर्षकं संस्कृतेन लिखत | 1×1=1

खण्ड: – “ख” (Sanskrit Annual Exam-2025 Class-8) 

रचनात्मकलेखनम् (12 अंका:)

प्रश्न 2. चित्रं दृष्ट्वा मञ्जूषात: पदानि चित्वा चत्वारि वाक्यानि लिखत – 4×2=8

यहाँ पर एक उद्यान का चित्र दिया गया है जिसके चारों ओर पेड़-पौधे व पर्वत है तथा बीच में एक सरोवर है |

मञ्जूषा :- {उद्यानस्य, वृक्षा:, खगा:, वर्त्तक:, सरोवरे, भ्रमन्ति, आकाशे, जना:, अस्ति, पर्वता:, सूर्योदय:, इदम्, दृश्यम्}

अथवा

“पुस्तकालय” इति विषयम् अधिकृत्य चत्वारि वाक्यानि लिखत – 4×2=8

प्रश्न :- 3. पदानाम् मेलनं कृत्वा वाक्यानि लिखत – 4×1=4

शिशव: वृक्षे स्मरसि
वानरौ जले पिबन्ति
त्वम् दुग्धम् कूर्दत:
हंस: पाठं तरति

 

खण्ड-ग

अनुप्रयुक्य-व्याकरणम् (18 अंका:)

प्रश्न :- 4. अधोलिखित पदेषु सन्धिं संधि-विच्छेदम् कुरुत – (केवलप्रश्नचतुष्टयम्) 3×1=3

(i) सा प्रात: देव + आलयं गच्छति |

(क) देवआलयं

(ख) देवालयं

(ग) देवोलयं

(घ) किमपि न

(ii) प्रात: भानूदय: भवति |

(क) भानु + उदय:

(ख) भानू + उदय:

(ग) भान + उदय:

(घ) भानो + उदय:

(iii) हितोपदेश: नारायणपण्डितस्य कृतिरस्ति |

(क) हितो + पदेश:

(ख) हित + ओपदेश:

(ग) हित + उपदेश:

(घ हित् + उपदेश:

(iv) योग + ईश: स्वपाठं स्मरति |

(क) योगीश:

(ख) योगईश:

(ग) योगिश:

(घ) योगेश:

प्रश्न :- 5. अधोलिखित पदेषु प्रकृति-प्रत्ययं योजयित्वा पदानि लिखत – (केवलप्रश्नचतुष्टयम्) 3×1=3

(i) त्वं कुत्र गत्वा = ……… + ………. क्रीडसि ?

(ii) नायक: निर्देशकं दृश् + तुमुन् = ………… गच्छति |

(iii) श्याम: कन्दुकं नी + क्त्वा = ………. धावति |

(iv) त्वं भोजनं कर्तुं = ………. + ………… गच्छसि |

प्रश्न: 06. उचितम् अव्यय-पदं चित्वा रिक्तस्थानानि पूरयत – (केवलप्रश्नचतुष्टयम्) 3×1=3

(i) सूर्य: अचल: पृथिवी …………… चला |

(ii) साहित्यरचना …………. सावित्री महीयते |

(iii) इमानि राज्यानि सप्तभगिन्य: ……… किमर्थं कथ्यन्ते |

(iv) प्रात:काले यदा चंचल: वनं गतवान् ……… स: दृष्टवान् यत् तेन विस्तारिते जाले दौर्भाग्याद् एक:व्याघ्र: बद्ध: आसीत् |

मञ्जूषा :- {तदा, इति, च, अपि}

प्रश्न :- 7. मञ्जूषात: अंकानां कृते पदानि चिनुत – (केवलप्रश्नत्रयम्) 3×1=3

(i) 9

(ii) 18

(iii) 28

(iv) 20

मञ्जूषा :- {अष्टाविंशति:, अष्टादश, विंशतिः, नव}

प्रश्न :- 8. (क) उचितशब्दरूपाणि चित्वा रिक्तस्थानानि पूरयत – (केवलप्रश्नत्रयम्) 3×1=3  

(i) नुनम् अस्मिन् बिले ………….. अस्तीति तर्कयामि | (सिंहौ / सिंह: / सिंहा:)

(ii) एकदा ………… वने जालं विस्तीर्य गृहम् आगतवान् | (स: / तौ / ते)

(iii) ……………. मा खादितुम् इच्छसि | (यूयम् / युवाम् / त्वम्)

(iv) ……………. त्वां मोचयितुम् इच्छामि | (अहं / आवां / वयं)

(ख) उचितधातुरूपाणि चित्वा रिक्तस्थानानि पूरयत – (केवलप्रश्नत्रयम्) 3×1=3

(i) बालका: पुस्तकानि पठित्वा विद्वांस: …………… |

(क) भविष्यति

(ख) भविष्यन्ति

(ग) भवेत्

(घ) भविष्यत:

(ii) सा नारी तत्र न …………… |

(क) गच्छति

(ख) गच्छत:

(ग) गच्छन्ति

(घ) गमिष्यन्ति

(iii) अहं तु विद्यालयं ……………. |

(क) गमिष्याव:

(ख) गमिष्यथ:

(ग) गमिष्यामि

(घ) गमिष्यसि

(iv) एकस्मिन् वने एक: सिंह: …………… |

(क) प्रतिवसति

(ख) प्रतिवसथ:

(ग) प्रतिवससि

(घ) प्रतिवसथ

खण्ड – घ

पठित-अवबोधनम् (22 अंका:)

प्रश्न :- 09. अधोलिखितं गद्यांशं पठित्वा प्रश्नानाम् उत्तराणि लिखत – (5)

सामाजिककुरीतीनां सावित्री मुखरं विरोधम् अकरोत् | विधवानां शिरोमुंडनस्य निराकरणाय सा साक्षात् नापितै: मिलिता | फलत: केचन् नापिता: अस्यां रूढौ सहभागिताम् अत्यजन् | एकदा सावित्र्या मार्गे दृष्टं यत् – कूपं निकषा शीर्णवस्त्रावृता: तथाकथिता: निम्नजातीया काश्चित् नार्य: जलं पातुं याचन्ते स्म | उच्चवर्गीया: उपहासं कुर्वन्त: कूपात् जलोद्धरणम् अवारयन् | सावित्री एतत् अपमानं सोढुम् नाशक्नोत् | सा ता: स्त्रिय: निजगृहं नीतवती | तडागं दर्शयित्वा अकथयत् च यत् यथेष्टं जलं नयत | सार्वजनिकोऽयं तडाग: | अस्मात् जलग्रहणे नास्ति जातिबन्धनम् | तया मनुष्याणां समानताया: स्वतंत्रताया: च पक्ष: सर्वदा सर्वथा समर्थित: |

अ. एकपदेन उत्तरत – (केवलप्रश्न-एकम्) 1×1=1

(i) सामाजिककुरीतीनां का मुखरं विरोधम् अकरोत् ?

(ii) विधवानां कस्य निराकरणाय सा साक्षात् नापितै: मिलिता ?

आ. पूर्ण-वाक्येन उत्तरत – (केवलप्रश्न-एकम्) 1×2=2

(i) सावित्री मार्गे किम् दृष्टम् ?

(ii) का ता: स्त्रिय: निजगृहं नीतवती ?

इ. यथानिर्देशं उत्तरत – (केवलप्रश्नद्वयम्) 2×1=2

(i) “नापितै:” अत्र का विभक्ति ?

(क) प्रथमा

(ख) द्वितीया

(ग) तृतीया

(घ) चतुर्थी

(ii) “सा ता: स्त्रिय: निजगृहं नीतवती” अत्र कर्तृपदं किम् ?

(क) सा

(ख) ता:

(ग) निजगृहं

(घ) नीतवती

(iii) “सामाजिककुरीतीनां सावित्री मुखरं विरोधम् अकरोत्” अत्र क्रियापदं किम् ?

(क) अकरोत्

(ख) सावित्री

(ग) मुखरं

(घ) कुरीतीनां

प्रश्न: 10. अधोलिखितं पद्यांशं पठित्वा प्रश्नानाम् उत्तराणि लिखत – (5)

अभिवादनशीलस्य नित्यं वृद्धोपसेविन: |

चत्वारि तस्य वर्धन्ते आयुर्विद्या यशो बलम् ||

यं मातापितरौ क्लेशं सहेते सम्भवे नृणाम् |

न तस्य निष्कृति: शक्या कर्तुं वर्षशतैरपि ||

अ. एकपदेन उत्तरत – (केवलप्रश्न-एकम्) 1×1=1

(i) कस्य चत्वारि वर्धन्ते ?

(ii) मातापितरौ किम् सहेते ?

आ. पूर्ण-वाक्येन उत्तरत – (केवलप्रश्न-एकम्) 1×2=2

(i) कौ क्लेशं सहेते ?

(ii) अभिवादनशीलस्य कानि चत्वारि वर्धन्ते ?

इ. यथानिर्देशं उत्तरत – (केवलप्रश्नद्वयम्) 2×1=2

(i) श्लोके “सदा” इत्यस्य पदस्य क: पर्याय: आगत: ?

(क) यश:

(ख) नित्यम्

(ग) तस्य

(घ) किमपि न

(ii) “चत्वारि तस्य वर्धन्ते” अत्र क्रियापदं किम् ?

(क) चत्वारि

(ख) तस्य

(ग) वर्धन्ते

(घ) वर्धते

(iii) “अभिवादनशीलस्य” इति पदे का विभक्ति: ?

(क) प्रथमा

(ख) तृतीया

(ग) चतुर्थी

(घ) षष्ठी

नाट्यांश:

प्रश्न :- 11. अधोलिखितं नाट्यांशं पठित्वा प्रश्नानाम् उत्तराणि लिखत – (5)

(ग्रीष्मर्तौ सांयकाले विद्युदभावे प्रचण्डोष्मणा पीडित: वैभव: गृहात् निष्क्रामति)

वैभव: – अरे परमिन्दर! अपि त्वमपि विद्युदभावेन पीडित: बहिरागत: ?

परमिन्दर – आम् मित्र! एकत: प्रचण्डातपकाल: अन्यतश्च विद्युदभाव: परं बहिरागत्यापि पश्यामि यत् वायुवेग: तु सर्वथाऽवरुद्ध: |

सत्यमेवोक्तम् – प्राणिति पवनेन जगत् सकलं, सृष्टिर्निखिला चैतन्यमयी | क्षणमपि न जीव्यतेऽनेन विना, सर्वातिशायि मूल्य: पवन: ||

विनय: – अरे मित्र! शरीरात् न केवलं स्वेदबिन्दव: अपितु स्वेदधारा: इव प्रस्रवन्ति, स्मृतिपथमायाति शुक्लमहोदयै: रचित: श्लोक: –

तप्तैर्वाताघातैरवितुं लोकान् नभसि मेघा: |

आरक्षिविभागजना इव समये नैव दृश्यन्ते ||

अ. एकपदेन उत्तरत – (केवलप्रश्न-एकम्) 1×1=1

(i) क: गृहात् निष्क्रामति ?

(ii) केन पीडित: वैभव: बहिरागत: ?

आ. पूर्ण-वाक्येन उत्तरत – (केवलप्रश्न-एकम्) 1×2=2

(i) परमिन्दर गृहात् बहिरागत्यापि किं पश्यति ?

(ii) सकलं जगत् केन प्राणिति ?

इ. यथानिर्देशं उत्तरत – (केवलप्रश्नद्वयम्) 2×1=2

(i) “दु:खित:” पदस्य क: पर्याय: अस्ति ?

(क) वैभव:

(ख)  पीडित:

(ग) प्रभाव:

(घ) अत्यन्त

(ii) “वैभव: गृहात् निष्क्रामति” अत्र कर्तृ-पदम् किम् ?

(क) वैभव:

(ख) गृहात्

(ग) निष्क्रामति

(घ) किमपि न

(iii) “शुक्लमहोदयै: रचित: श्लोक:” अत्र क्रियापदम् किम् ?

(क) शुक्ल:

(ख) महोदय:

(ग) श्लोक:

(घ) रचित:

प्रश्न :- 12. मञ्जूषात: समुचितानि पदानि चित्वा अधोलिखितस्य श्लोकस्य अन्वयं पूरयत – 3×1=3

साहित्यसङ्गीतकलाविहीन:, साक्षात्पशु: पुच्छविषाणहीन: |

तृणन्न खादन्नपि जीवमान:, तद् भागधेयं परमं पशुनाम् ||

अन्वय: – साहित्य-सङ्गीत-कला-विहीन: पुच्छविषाणहीन: (i) ……… | तृणन् न (ii) ………….अपि जीवमान:, तत् (iii) ……… परमं भागधेयम् |

मञ्जूषा – (साक्षात्पशु:, खादन्, पशुनाम्)

प्रश्न :- 13. प्रश्नपत्रात् अतिरिच्य स्वपाठ्यपुस्तकात् श्लोकद्वयं संस्कृतेन लिखत – 2×2=4

(i) श्लोक: ……………………………….|

………………………………..||

(ii) श्लोक: ……………………………..|

……………………………….||

Leave a Comment