CBSE Sanskrit paper-2023 class-10

CBSE Sanskrit paper-2023 class-10

यह प्रश्न पत्र CBSE परीक्षा 2023 में आया हुआ है | इस प्रश्न-पत्र के द्वारा आप आगामी board परीक्षा की तैयारी के लिए सहायता ले सकते हैं | मुझे पूर्ण विश्वास है कि इस (CBSE Sanskrit paper-2023 class-10) प्रश्न-पत्र से आपको निश्चित रूप से फायदा होगा |

कक्षा – 10

संस्कृत code – 122 

समय – 3 Hours   अंक – 80 

सभी प्रश्नों के उत्तर अन्त में दिए गए हैं |

सामान्यनिर्देशा : General instructions.

➢ अस्मिन् प्रश्नपत्रे चत्वार: खण्डा: सन्ति |

Four parts in this question paper.

➢ उत्तराणि संस्कृतेन एव लेखनीयानि |

Write answer in Sanskrit only.

प्रश्नपत्र-स्वरुपम् –          

 क – अपठितावबोधनम् – 10 अंका:

 ख – रचनात्मक-कार्यम् – 15 अंका:

 ग – अप्रयुक्त-व्याकरणम् – 25 अंका:

 घ – पठिताबोधनम् – 30 अंका:

खण्ड: ‘क’  अपठित-अवबोधनम्

प्रश्न – 1. अधोलिखितं गद्याशं पठित्वा प्रदत्त प्रश्नानां उत्तराणि संस्कृतेन लिखत | (10)

अस्माकं देश: प्राचीनकालात् एव प्राकृतिक-पर्यावरणस्य पोषक: | वैदिककाले यद्यपि पर्यावरणस्य प्रदूषणस्य समस्या नासीत् तथापि वेदेषु स्थाने-स्थाने ऋषीणाम् पर्यावरण-विषयकं चिन्तनं दृश्यते | अद्य पर्यावरण-प्रदूषणम् संसारस्य भीषणतमा समस्या वर्तते, परं जना: अस्या: गाम्भीर्यं न अनुभवन्ति | पर्यावरणम् रक्षणीयं वृक्षा: रोपणीया: रक्षणीया च इति शृंवन्त:उद्घोषयन्त: अपि वयं प्रतिदिनं तेषां कर्तनं पश्याम: | ‘प्लास्टिक’ इति रसायनेन निर्मितवस्तूनि पर्यावरणाय हानिकराणि इति जानन्त: अपि जना: एतेषां प्रयोगं बाहुल्येन कुर्वन्ति | पर्यावरणप्रदूषकम् धूमं क्षिपतां वाहनानाम् औद्योगिक-यंत्रागाराणाम् संख्या निरन्तरं वर्धमाना अस्ति | यद्यपि विकासाय नवीना: आविष्कारा:, अपेक्षिता: परं संचाराय विस्तृता: सुरक्षिता: मार्गा: जनानां कृते आवश्यका: एव | यदि पर्यावरणम् प्राणिजीवनाय अनुकुलं न भविष्यति तर्हि पृथिव्यां जीवनमेव असम्भवं भविष्यति तदा भौतिकविकासेन किम् ! अत: सर्वकार: जनसहयोगेन सर्वथा पर्यावरणरक्षणाय यत्नशील: भवेदिति |

अ – एकपदेन उत्तरत | (केवल प्रश्नद्वयम्) (1 x 2 = 2)

  1. के रोपणीया: रक्षणीया च?
  2. कदा पर्यावरणस्य प्रदूषणस्य समस्या नासीत्?
  3. अस्माकं देश: कस्य पोषक:?

आ – पूर्ण वाक्येन उत्तरत | (केवल प्रश्नद्वयम्) (2 x 2 = 4)

  1. किम् जानन्त: जना: प्लास्टिक- निर्मितवस्तूनां प्रयोगं बाहुल्येन कुर्वन्ति?
  2. यदि पर्यावरणम् प्राणिजीवनाय अनुकुलं न भविष्यति तर्हि किम् भविष्यति?
  3. केषां संख्या निरन्तरं वर्धमाना अस्ति?

इ – अस्य अनुच्छेदस्य कृते उपयुक्तं शीर्षकं संस्कृतेन लिखत | (1)

ई – यथानिर्देम् उत्तरत | (केवल प्रश्नत्रयम्) (1 x 3 = 3)

01 “जना: अस्या: गाम्भीर्यं न अनुभवन्ति” इति वाक्ये क्रियापदं किम्?

(अ) जना:

(ब) अत्र

(स) अस्या:

(द) अनुभवन्ति

02 “नवीना” इति विशेष्यपदस्य विशेषणपदं किम्?

(अ) जना:

(ब) आविष्कारा:

(स) अपेक्षिता:

(द) मार्गा:

03. “शोषक:” इति पदस्य किं विलोमपदं गद्याांशे प्रयुक्तम्?

(अ) विषय:

(ब) चिन्तनीय:

(स) सरल:

(द) पोषक:

04. “वयं प्रतिदिनं तेषां कर्तनं पश्याम:” अस्मिन् वाक्ये पश्याम: क्रियापदस्य कर्तृपदं किम्?

(अ) वयम्

(ब) तेषाम्

(स) प्रतिदिनम्

(द) कर्तनम्

खण्ड: ‘ख’

रचनात्मकं कार्यम् Creative work (CBSE Sanskrit paper -2023 class-10)

प्रश्न –2. भवती प्रभा अस्ति | स्वमातरं प्रति स्वस्वास्थ्य-विषये लिखितम् इदं पत्रं मंजूषापद सहायतया पूरयित्वा पुन: लिखत | (1/2 x 10 = 5)

विद्यालयपरिसर:

(i) …………

समादरणीया: (ii)  …………….,

सादरं प्रणाम: |

अत्र कुशलं तत्रास्तु | सम्प्रति मम (iii) …………… परीक्षा संचरति | अत्र छात्रावासे पठनस्य वातावरणम् तु शोभनं वर्तते | अत्र अध्यापका: अपि च अतीव कर्मठा: सन्ति | अत: पठनस्य कार्यं (iv) ……….. एव भवति, परन्तु अध्ययन-कारणात् शयनस्य भोजनस्य च (v) ………..एव न प्राप्यते | अत: अद्यत्वे मम (vi) ……….सुष्ठु नास्ति | अहं (vii) ……….पीडिता अस्मि | परं काचिद् अपि (viii) ………… नैव करणीया | आशासे अहं शीघ्रमेव पूर्णतया स्वस्था भविष्यामि | परीक्षाया: अनन्तरं (ix) ……….. आगमिष्यामि | तदा वयं मिलित्वा भ्रमणाय वाराणसी-नगरं गमिष्याम: | पित्रे (x) …………|

भवत्या: पुत्री
प्रभा

मंजूषा

वार्षिकी, शिमालत:, ज्वरेण, मातृचरणा:, गृहम्, स्वास्थ्यम्, समुचितम्, नम:, समय:, चिन्ता |

 

प्रश्न –3. प्रदत्तचित्रं दृष्ट्वा मंजूषायां प्रदत्तशब्दानां सहायतया पञ्च वाक्यानि संस्कृतेन लिखत | (1 x 5 = 5)

मंजूषा

उद्यानम्, धावत:, जनौ, वातावरणम्, नगरस्य, महिला, वृक्षा:, साधारणम्, विशालभवनानि, बसस्थानम्, स्वच्छम्, प्रतिक्षाम्, तिष्ठन्ति, अवकरपात्रम् |

अथवा

मंजूषाप्रदत्तशब्दानां सहायतया निम्नलिखितं विषयम् अधिकृत्य न्यूनातिन्यूनं पंचभि: संस्कृतवाक्यै: एकम् अनुछेदं लिखत | (1 x 5 = 5)

“वृक्षा: अस्माकं मित्राणि”

मंजूषा

वृक्षा:, सत्पुरुषा:, परोपकारम्, छाया, फलानि, पुष्पाणि, जना:, पवन:, काष्ठम्, शीतल:, स्वास्थ्याय, आवश्यकम्, पाथिक:, आनंदम्, अनुभवन्ति, भूमे:, संरक्षणम्, वर्षा, पक्षिभ्य: वास: |

प्रश्न –4. अधोलिखितानि वाक्यानि संस्कृतभाषया अनूद्य लिखत | (केवलपञ्चवाक्यानि ) (1 x 5 = 5)

  1. कल तुम कहाँ गए थे?
  2. घर के बाहर मत खेलो |
  3. भारत ऋषियों की भूमि है |
  4. हमारा जीवन अनुशासित होना चाहिए |
  5. मैं अपने जन्म दिन पर देवालय जाऊँगा |
  6. हम बाग़ में खेलतें हैं |
  7. बालक मित्रों के साथ पढता है |

खण्ड: ‘ग’

अनुप्रयुक्त व्याकरणम् Grammar (CBSE Sanskrit paper-2023 class-10)

प्रश्न –5. अधोलिखितेषु वाक्येषु रेखांकित पदेषु संधिम् संधिविच्छेदं वा कुरुत | (केवल प्रश्नचतुष्ट्यम्) (1 x 4 = 4)

  1. क्रुद्ध: सिंह: इतस्तत: धावति |
  2. प्रकृति: + एव शरणम् |
  3. उदीरित: + अर्थ: पशुनापि गृह्यते |
  4. अचिरादेव चंडवातेन सह प्रवर्ष: समजायत |
  5. माम् नय अस्मात् + नगरात् बहुदूरम् |

प्रश्न –6. अधोलिखितेषु वाक्येषु रेखांकित पदनां समासं विग्रहं वा
प्रदत्तविकल्पेभ्य: चित्वा लिखत | (केवल प्रश्नचतुष्ट्यम्) (1 x 4 = 4)

1. स: भारवेदनया क्रन्दति स्म |

(क) भारम् वेदनया

(ख) भारस्य वेदनया

(ग) भारेण वेदनया

(घ) भाराय वेदनया

2. प्रस्तरतले लतातरुगुल्मा: मे भवन्तु पिष्टा |

(क) लता च तरु च

(ख) लता च तरव: च

(ग) लता च गुल्मा: च

(घ) लता: च तरव: च गुल्मा: च

3. रामस्य समीपम् उपसृत्य प्रणम्य च |

(क) उपरामम्

(ख) उपरामेण

(ग) उपराम:

(घ) उपरामस्य

4. को भेद: पिक: च काक: च तयो: |

(क) पिककाकम्

(ख) पिककाकयो:

(ग) पिककाकस्य

(घ) पिककाका:

5. विमूढधि: मधुरं न वदति |

(क) विमूढा धी:

(ख) विमूढ: धी:

(ग) विमूढा: धिय:

(घ) विमूढा धी: यस्य स:

प्रश्न –7. अधोलिखितेषु वाक्येषु रेखांकित पदनां प्रकृति-प्रत्ययौ संयोज्य विभज्य वा उचितम् उत्तरं विकल्पेभ्य: चित्वा लिखत | (प्रश्नचतुष्ट्यम्) (1 x 4 = 4)

1. भगवान् वाल्मीकि: वधू: इति |

(क) भग + वन्

(ख) भग + मतुप्

(ग) भग + वतुप्

(घ) भग + क्तवतु

2. सर्वेषाम् मत्कृते महत् + त्व विद्यते |

(क) महत्ता

(ख) महत्त्वम्

(ग) महत्त्व:

(घ) महात्वम्

3. किम् नामधेया युवयोर्जननी |

(क) नामधेय + तल्

(ख) नामधेय + त्व

(ग) नामधेय + क्त्वा

(घ) नामधेय + टाप्

4. देशस्य सेवा सर्वेषां नीति + ठक् कर्तव्यम् भवेत् |

(क) नैतिकम्

(ख) नैतिकी

(ग) नैतिक:

(घ) नैतिक

5. नृत्यातिरिक्तम् का तव विशेषता?

(क) विशेष + टाप्

(ख) विशेष + क्त

(ग) विशेष + तल्

(घ) विशेष + क्तवतु

Active voice to passive voice:-

प्रश्न – 8. वाच्यानुसारम् उचितपदै: रिक्तस्थानानि पूरवयित्वा अधोलिखितं संवादं पुन: लिखत | (केवल प्रश्नत्रयम्) (1 x 3 = 3) 

1. मोहन: – रमे! किम् तत्र शालायाम् गायक: गीतानि गायति |

रमा – आम्, तत्र गायकेन गीतानि …………|

(क) गीतानि

(ख) गायन्ति

(ग) गीयन्ते

(घ) गीयते

2. मोहन: – किम् कापि बाला तत्र नृत्यति?

रमा – आम्, तत्र तु द्वे बाले …………|
(क) नृत्यति

(ख) नृत्यत:

(ग) नर्तिष्यत:

(घ) नृत्यन्ति

3. मोहन: – किम् इदानीम् त्वम् अपि तत्र गच्छसि?

रमा – आम्, ………… अपि तत्र गम्यते |
(क) अहम्

(ख) वयम्

(ग) मया

(घ) त्वया

4. मोहन: – अरे! गुरु: आयाति | अहं तु ………… प्रणमामि |

(क) गुरुम्

(ख) गुरु:

(ग) गुरवे

(घ) गुरो:

प्रश्न – 9 कालबोधकै: अधोलिखित-वाक्यानि पूरयत | (केवलप्रश्नचतुष्ट्यम्) (1 x 4 = 4)

  1. अहं नित्यं रात्रौ (08:30) ……………….. भोजनं करोमि |
  2. तदन्तरं (08:45) ………….. भ्रमणाय गच्छामि |
  3. तदा (09:30) ………….. मनोरंजनाय दूरदर्शनं पश्यामि |
  4. दूरदर्शनं दृष्ट्वा (10:00) ………….. पठनं करोमि |
  5. रात्रौ (11:15) ……………. अहं स्वपिमि |

प्रश्न – 10 मञ्जूषायां प्रदतै: उचितै: अव्ययपदै: अधोलिखित-वाक्येषु रिक्तस्थानानि पूरयत | (केवलप्रश्नत्रयम् ) (1 x 3 = 3)

  1. ते सभायां …………… मा वदेयु: |
  2. यदि त्वं मां मुक्त्वा यासि………….. वेलाप्यवेला स्यात् |
  3. यूयम्……………….. प्रयासं कुरुत |
  4. मार्गेषु……………… अवकरं न क्षिपेयु: |

मंजूषा

तदा, इतस्तत:, वृथा,अपि

 

प्रश्न – 11. अधोलिखित-वाक्येषु रेखांकित-अशुद्धपदाय उचितं पदं चित्वा वाक्यानि पुन: लिखत | (केवलप्रश्नत्रयम्) (1 x 3 = 3)

1. पवनं वेगेन वहति |

(क) पवन

(ख) पावनम्

(ग) पवन:

(घ) पवनेन

2. अहं आम्रं खादति |

(क) खादामि

(ख) खादत

(ग) खादसि

(घ) खादाम:

3. मोहन: गृहं तत्रास्ति |

(क) मोहनम्

(ख) मोहनात्

(ग) मोहने

(घ) मोहनस्य

4. भवान् श्व: कुत्र गच्छति?

(क) गमिष्यति

(ख) अगच्छ्त्

(ग) गच्छतु

(घ) आगमिष्यति

खण्ड: ‘घ’

पठितावबोधनम् Read understanding (CBSE Sanskrit paper-2023 class-10)

प्रश्न – 12. अधोलिखितं गद्याशं पठित्वा प्रदत्तप्रश्नानां उत्तराणि संस्कृतेन लिखत | (5)

कश्चन निर्धनो जन: भूरि परिश्रम्य किंचित् वित्तमुपार्जितवान् | तेन वित्तेन स्वपुत्रम् एकस्मिन् महाविद्यालये प्रवेशं दापयितुं सफलो जात: | तत्तनय: तत्रैव छात्रावासे निवसन् अध्ययने संलग्न: समभूत् | एकदा स पिता तनूजस्य रुग्णतामाकर्ण्य व्याकुलो जात: पुत्रं द्रष्टुम् च प्रस्थित: | परमर्थकार्श्येन पीडित: स बसयानं विहाय पदातिरेव प्राचलत् | पदातिक्रमेण सञ्चलन् सायं समय: अपि असौ गंतव्याद् दूरे आसीत् | निशान्धकारे प्रसृते विजने प्रदेशे पदयात्रा न शुभावहा ‘इति विचार्य स पार्श्वस्थिते ग्रामे रात्रिनिवासं कर्तुं कंचिद् गृहस्थमुपागत: | करुणापरो गृही तस्मै आश्रयं प्रायच्छत् |

अ. एकपदेन उत्तरत – (केवलप्रश्नद्वयम्) (1/2 x 2 = 1)

  1. कीदृश: जन: भूरि परिश्रम्य किंचित् वित्तमुपार्जितवान्?
  2. तनय: कुत्र निवसन् अध्ययने संलग्न: समभूत्?
  3. करुणापरो गृही कस्मै आश्रयं प्रायच्छत्?

आ. पूर्णवाक्येन उत्तरत – (केवलप्रश्नद्वयम्) (1 x 2 = 2)

  1. स पिता किमर्थं व्याकुलो जात:?
  2. स किम् विचार्य पार्श्वस्थिते ग्रामे रात्रिनिवासं कर्तुं कंचिद् गृहस्थमुपागत:?
  3. अर्जितेन वित्तेन स: जन: किम् अकरोत्?

इ . निर्देशनुसारं उत्तरत – (केवलप्रश्नद्वयम्) (1 x 2 = 2)

  1. “परमर्थकार्श्येन पीडित: स: बसयानं विहाय पदातिरेव प्राचलत्” अत्र कर्तृपदं किम्?
  2. “करुणापर:” इति विशेषणपदस्य विशेष्यपदं किम्?
  3. “पुत्रस्य” इति पदस्य किम् पर्यायपदं गद्यांशे प्रयुक्तम्?

प्रश्न –13. अधोलिखितं पद्याशं पठित्वा प्रदत्त प्रश्नानां उत्तराणि संस्कृतेन लिखत | (5)

वायुमंडलं भृशं दूषितं न हि निर्मलं जलम् |

कुत्सितवस्तुमिश्रितं भक्ष्यं समलं धरातलम् ||

करणीयं बहिरन्तर्जगति तु बहु शुद्धिकरणम् | शुचि ….||

अ. एकपदेन उत्तरत- (केवलप्रश्नद्वयम्) (1/2 x 2 = 1)

1. जलं कीदृशं न अस्ति?

2. समलं किम् अभवत्?

3. भृशं दूषितं किम् अस्ति?

आ. पुर्णवाक्येन उत्तरत- (केवलप्रश्नद्वयम्) (1 x 2 = 2)

  1. मनुष्यै: किम् करणीयम्?
  2. भक्ष्यं कीदृशं जातम्?
  3. शुद्धिकरणम् कुत्र करणीयम्?

इ . निर्देशनुसारं उत्तरत- (केवलप्रश्नद्वयम्) (1 x 2 = 2)

  1. “बहु” इति पदस्य पर्यायपदं किम्?
  2. “अन्तर्” इति पदस्य विपर्ययपदं किम्?
  3. “जलम्” इति पदस्य विशेषणपदं किम्?
प्रश्न –14. अधोलिखितं नाट्यांशं पठित्वा प्रदत्त प्रश्नानां उत्तराणि संस्कृतेन लिखत | ( 5 )

(एतस्मिन् एव काले व्याघ्रचित्रकौ अपि नदीजलं पातुमागतौ एतं विवादं शृणुत: वदत: च)

व्याघ्रचित्रकौ – अरे किम् वनराजपदाय सुपत्राम् चीयते? एतदर्थं तु आवामेव योग्यौ ! यस्य कस्यापि चयनं कुर्वन्तु सर्वसम्मतया |

सिंह: – तूष्णीम् भव भो: | युवामपि मत्सदृशौ भक्षकौ न तु रक्षकौ | एते वन्यजीवा: भक्षकं रक्षकपदयोग्यं न मन्यन्ते अतएव विचारविमर्श: प्रचलति |

बक: – सर्वथा सम्यगुक्तं सिंहमहोदयेन | वस्तुत: एव सिंहेन बहुकालपर्यन्तं शासनं कृतं परमधुना तु क: अपि पक्षी एव राजेति निश्चेतव्यम् अत्र तु संशीतिलेशस्यापि अवकाश: एव नास्ति |

सर्वे पक्षिण: – आम् आम् – कश्चित् खग: एव वनराज: भविष्यति इति |

अ. एकपदेन उत्तरत- (केवलप्रश्नद्वयम्) (1/2 x 2 = 1)

  1. कौ नदीजलं पातुमागतौ?
  2. “तूष्णीम् भव” इति क: कथयति?
  3. किमर्थम् सुपत्राम् चीयते?

आ. पूर्णवाक्येन उत्तरत—( केवलप्रश्नद्वयम्) (1 x 2 = 2)

  1. तत्र किमर्थम् विचारविमर्श: प्रचलति?
  2. अधुना किम् निश्चेतव्यम्?
  3. सर्वे पक्षिण: किं कथयन्ति?

इ. निर्देशनुसारं उत्तरत- (केवलप्रश्नद्वयम्) (1 x 2 = 2)

  1. “एतस्मिन् एव काले व्याघ्रचित्रकौ अपि नदीजलं पातुमागतौ” वाक्ये किम् कर्तृपदं प्रयुक्तम्?
  2. “पक्षिण:” इति विशेष्यपदस्य विशेषणपदं किम्?
  3. “कलहम्” इति पदस्य गद्यांशे पर्यायपदं किं प्रयुक्तम्?

प्रश्न – 15. रेखांकितपदानि आधृत्य प्रश्ननिर्माणं कुरुत (केवलप्रश्नचतुष्ट्यम्) (1 x 4 = 4)

  1. आत्मकल्याणम् इच्छन् नर: कदापि परेषाम् अहितं कर्म न कुर्यात् |
  2. अयम् अन्यभ्यो दुर्बल: |
  3. पुरा त्वया मह्यं व्याघ्रत्रयं दत्तम्
  4. चातक: वने वसति |
  5. तपोवनवासिन: जननीं देवीनाम्ना आह्वयन्ति |

प्रश्न – 16. मंजूषात: समुचितपदानि चित्वा अधोलिखितश्लोकस्य अन्वय पूरयित्वा पुन: लिखत | (1 x 4 = 4)

मृगा मृगै: संगमनुव्रजन्ति, गावश्च गोभि: तुरंगास्तुरंगै: |

मूर्खाश्च मूर्खै: सुधिय: सुधीभि:, समान-शील-व्यसनेषु सख्यम् ||

अन्वय: – मृगा (i)………….. गावश्च गोभि: (ii) ……………. तुरंगै:, मूर्खा: मूर्खै:, सुधिय: सुधीभि: संगम् (iii) ………….| (iv)………… समान-शील-व्यसनेषु (भवति) |

             मञ्जूषा
सख्यम्, मृगै:, तुरंगा:,नुव्रजन्ति

अथवा
मञ्जूषाया: सहायतया श्लोकस्य भावार्थ: रिक्तस्थानानि पूरयित्वा पुन: लिखत | (1 x 4 = 4)

आचार: प्रथमो धर्म: इत्येतद् विदूषाम् वच: |

तस्माद् रक्षेत् सदाचारं प्राणेभ्य: अपि विशेषत: ||

भावार्थ: – अस्य भाव: अस्ति यत् सदाचार: जनानां (i) …………धर्म: अस्ति, इति (ii) …………. कथयन्ति अतएव जनै: (iii) ………….. रक्षा प्राणेभ्य: अपि (iv) ………….करणीया |

                  मञ्जूषा

विद्वांस:, विशेषतया, प्रथम:, सदाचारस्य

प्रश्न- 17. अधोलिखितं कथाशं समुचित-क्रमेण लिखत | (1/2 x 8 = 4)

  1. व्याघ्र: तां व्याघ्रामारीम् मत्वा अधावत् |
  2. तस्य भार्या बुद्धिमती आसीत् |
  3. मार्गे सा एकं व्याघ्रं ददर्श |
  4. बुद्धिमती व्याघ्रजाद् भयात् मुक्ता अभवत् |
  5. तत्र राजसिंह: नां राजपुत्र: वसति स्म |
  6. अस्ति देउलाख्यो नाम ग्राम: |
  7. सा पुत्रद्वयोपेता पितुर्गृहम् प्रति चलिता |
  8. सा वाक्चातुर्येण बुद्धे: च प्रयोगेन व्याघ्रं भयभीतं कृतवती |

प्रश्न – 18. अधोलिखितवाक्येषु रेखांकितपदानां प्रसंगानुकूलम् उचितार्थम् चित्वा लिखत | (केवलप्रश्नत्रयम्) (1 x 3 = 3)
1. एक: दुर्बल: बलीवर्द:  भूमौ पपात |

(क) गौ

(ख) धेनु:

(ग) वृषभ:

(घ) महिष:

2. तदा तत्र सुराधिप: आगच्छत् |
(क) नृप:

(ख) धेनु:

(ग) कृषक:

(घ) इन्द्र:

3. नराणाम् प्रथम: शत्रु: आलस्यम् अस्ति |

(क) मानव:

(ख) मित्रम्

(ग) रिपु:

(घ) सहायक:

4. फलच्छायासमन्वित: वृक्ष: सेवितव्य: |

(क) तरु:

(ख) खग:

(ग) छाया

(घ) मानव:

Answers (CBSE Sanskrit paper-2023 class-10) :-

उत्तर 1. अ – एकपदेन उत्तरत |

(1) वृक्षा: (2) वैदिककाले (3) प्राकृतिक-पर्यावरणस्य |

आ – पूर्ण वाक्येन उत्तरत |

(1) ‘प्लास्टिक’ इति रसायनेन निर्मितवस्तूनि पर्यावरणाय हानिकराणि इति जानन्त: अपि जना: एतेषां प्रयोगं बाहुल्येन कुर्वन्ति |

(2) यदि पर्यावरणम् प्राणिजीवनाय अनुकुलं न भविष्यति तर्हि पृथिव्यां जीवनमेव असम्भवं भविष्यति |

(3) पर्यावरणप्रदूषकम् धूमं क्षिपतां वाहनानाम् औद्योगिक-यंत्रागाराणाम् संख्या निरन्तरं वर्धमाना अस्ति |

इ – शीर्षकं = पर्यावरणम् |

ई – यथानिर्देम् उत्तरत |

(1) (द) अनुभवन्ति

(2) (ब) आविष्कारा:

(3) (द) पोषक:

(4) (अ) वयम्

उत्तरम् 2. (1) शिमालत: (2) मातृचरणा: (3) वार्षिकी (4) समुचितम् (5) समय: (6) स्वास्थ्यम् (7) ज्वरेण (8) चिन्ता (9) गृहम् (10) नम: |

उत्तर 3.

(1) इदं चित्रं बसस्थानकस्य अस्ति |

(2) अस्मिन् चित्रे विशालभवनानि सन्ति |

(3) अस्मिन् चित्रे एका महिला जनौ च तिष्ठन्ति |

(4) अस्मिन् चित्रे एकम् उद्यानं दृश्यते |

(5) अस्य नगरस्य वातावरणम् स्वच्छम् अस्ति |

अथवा

(1) वृक्षा: अस्मान् छाया, फलानि, पुष्पाणि ददति |

(2) वृक्षा: शीतल: पवन: ददति |

(3) वृक्षा: स्वास्थ्याय आवश्यकम् अस्ति |

(4) सत्पुरुषा: परोपकाराय वृक्षाणाम् रोपणम् कुर्वन्ति |

(5) वृक्षाणाम् उपरि पक्षिभ्य: वास: भवति |

उत्तरम् 4.

(1) यूयं श्व: कुत्र अगच्छत |

(2) गृहात् बहि: मा क्रिड |

(3) भारत: ऋषिणाम् भूमि: अस्ति |

(4) अस्माकं जीवनं अनुशासितं भवेत् |

(5) अहं स्व-जन्मदिवसे मन्दिरम गमिष्यामि |

(6) वयं उद्याने क्रिडाम: |

(7) बालक: मित्रै: सह पठति |

उत्तरम् 5.

  1. इत: + तत: |
  2. प्रकृतिरेव |
  3. उदीरितोsर्थ: |
  4. अचिरात् + एव |
  5. अस्मान्नगरात् |

उत्तर 6.

  1. (ख) भारस्य वेदनया
  2. (घ) लता: च तरव: च गुल्मा: च
  3. (क) उपरामम्
  4. (ख) पिककाकयो:
  5. (घ) विमूढा धी: यस्य स:

उत्तरम् 7.

  1. (ख) भग + मतुप्
  2. (ख) महत्त्वम्
  3. (घ) नामधेय + टाप्
  4. (क) नैतिकम्
  5. (ग) विशेष + तल्

उत्तर 8.

  1. (ग) गीयन्ते
  2. (ख) नृत्यत:
  3. (ग) मया
  4. (क) गुरुम्

उत्तरम् 9.

  1. सार्ध अष्ट वादने |
  2. पादोन नव वादने |
  3. सार्ध नव वादने |
  4. दश वादने |
  5. सपाद एकादश वादने |

उत्तर 10.

  1. वृथा, 2. तदा, 3. अपि, 4. इतस्तत: |
उत्तरम् 11.
  1. (ग) पवन:
  2. (क) खादामि
  3. (घ) मोहनस्य
  4. (क) गमिष्यति

उत्तरम् 12.

अ. एकपदेन उत्तरत –

  1. कश्चन निर्धन: |
  2. छात्रावासे |
  3. तस्मै |

आ. पूर्णवाक्येन उत्तरत –

  1. स पिता तनूजस्य रुग्णतामाकर्ण्य व्याकुलो जात: |
  2. निशान्धकारे प्रसृते विजने प्रदेशे पदयात्रा न शुभावहा ‘इति विचार्य स पार्श्वस्थिते ग्रामे रात्रिनिवासं कर्तुं कंचिद् गृहस्थमुपागत: |
  3. अर्जितेन वित्तेन स: जन: स्वपुत्रम् एकस्मिन् महाविद्यालये प्रवेशं दापयितुं सफलो जात: |

इ. निर्देशनुसारं उत्तरत –

  1. स: |
  2. गृही |
  3. तनूजस्य |

उत्तरम् 13.

अ. एकपदेन उत्तरत –

  1. निर्मलं |
  2. धरातलम् |
  3. वायुमंडलम् |

आ. पूर्णवाक्येन उत्तरत –

  1. मनुष्यै: बहुशुद्धि: करणीयम् |
  2. भक्ष्यं कुत्सितवस्तुमिश्रितं जातम् |
  3. शुद्धिकरणम् बहिरन्तर्जगति करणीयम् |

इ. निर्देशनुसारं उत्तरत –

  1. भृशम् |
  2. बहि: |
  3. निर्मलम् |
उत्तरम् 14.

अ. एकपदेन उत्तरत –

  1. व्याघ्रचित्रकौ |
  2. सिंह: |
  3. वनराजपदाय |

आ. पूर्णवाक्येन उत्तरत –

  1. एते वन्यजीवा: भक्षकं रक्षकपदयोग्यं न मन्यन्ते अतएव विचारविमर्श: प्रचलति |
  2. अधुना तु क: अपि पक्षी एव राजेति निश्चेतव्यम् |
  3. आम् आम् – कश्चित् खग: एव वनराज: भविष्यति इति |

इ. निर्देशनुसारं उत्तरत –

  1. व्याघ्रचित्रकौ |
  2. सर्वे |
  3. विवादम् |

उत्तर 15.

  1. केषाम्, 2. केभ्य:, 3. कस्मै:, 4. क:, 5. कया |

उत्तरम् 16.

(i) मृगै:, (ii) तुरंगा:, (iii) अनुव्रजन्ति, (iv) सख्यम् |

अथवा

(i) प्रथम:, (ii) विद्वांस:, (iii) सदाचारस्य, (iv) विशेषतया |

उत्तरम् 17.

  1. अस्ति देउलाख्यो नाम ग्राम: |
  2. तत्र राजसिंह: नां राजपुत्र: वसति स्म |
  3. तस्य भार्या बुद्धिमती आसीत् |
  4. सा पुत्रद्वयोपेता पितुर्गृहम् प्रति चलिता |
  5. मार्गे सा एकं व्याघ्रं ददर्श |
  6. व्याघ्र: तां व्याघ्रामारीम् मत्वा अधावत् |
  7. सा वाक्चातुर्येण बुद्धे: च प्रयोगेन व्याघ्रं भयभीतं कृतवती |
  8. बुद्धिमती व्याघ्रजाद् भयात् मुक्ता अभवत् |

उत्तर 18.

  1. (ग) वृषभ:
  2. (घ) इन्द्र:
  3. (ग) रिपु:
  4. (क) तरु:

3 thoughts on “CBSE Sanskrit paper-2023 class-10”

Leave a Comment