CBSE Sanskrit paper-2024 class-10

CBSE Sanskrit paper-2024 class-10

यह प्रश्न पत्र CBSE Sanskrit paper-2024 class-10 में आया हुआ है | यह प्रश्न-पत्र आगामी board परीक्षा की तैयारी के लिए उपयोगी रहेगा | मुझे पूर्ण विश्वास है कि इस प्रश्न-पत्र से आपको निश्चित रूप से board परीक्षा की तैयारी में फायदा होगा |

कक्षा – 10

संस्कृत code – 122 

समय – 3 Hours   अंक – 80 

सामान्यनिर्देशा : General instructions.

➢ अस्मिन् प्रश्नपत्रे चत्वार: खण्डा: सन्ति |

Four parts in this question paper.

➢ उत्तराणि संस्कृतेन एव लेखनीयानि |

Write answer in Sanskrit only.

प्रश्नपत्र-स्वरुपम् –          

 क – अपठितावबोधनम् – 10 अंका:

 ख – रचनात्मक-कार्यम् – 15 अंका:

 ग – अप्रयुक्त-व्याकरणम् – 25 अंका:

 घ – पठिताबोधनम् – 30 अंका:

खण्ड: ‘क’  अपठित-अवबोधनम्

प्रश्न – 1. अधोलिखितं गद्याशं पठित्वा प्रदत्त प्रश्नानां उत्तराणि संस्कृतेन लिखत | (10)

“संस्कृतभाषा सर्वभाषाणां जननी” इत्युच्यते | परम् अद्यत्वे छात्राणाम् मध्ये एक: चर्चित: प्रश्न: वर्तते यत् “संस्कृतपठनेन के लाभा: ?” अर्थात् संस्कृतपठनेन जीवनवृत्ते: अवसरा: के ? वस्तुत: भौतिकयुगे ईदृशी जिज्ञासा स्वाभाविकी एव | अस्या: जिज्ञासाया: समुचितं समाधानं संचारमाध्यमेन कर्तुं शक्यते | वयं पश्याम: यत् अद्यत्वे संस्कृतपठनेन नैके लाभा: सन्ति | संस्कृतभाषा विश्वस्य प्राचीनतमासु भाषासु अन्यतमा अस्ति | ऐतिहासिकदृष्ट्या संस्कृते लिखिता: ग्रन्था: वेदा: महत्त्वपूर्णम् स्थानं भजन्ते | आधुनिकसंस्कृतस्य वैज्ञानिकभाषारूपेण सर्वत्र महत्त्वपूर्णम् स्थानं दृश्यते | यदा विश्वं कृत्रिममेधा विषये अनुसंधानं करोति तत्र संस्कृतं महत् साहाय्यं कर्तुं शक्नोति | यतो हि संस्कृतस्य व्याकरणं पूर्णतया वैज्ञानिकं अस्ति | वर्तमान समये संस्कृतस्य अध्येतार: शिक्षणकौशल-चिकित्सा-खगोलविद्या-वास्तुविद्या- आई.ए.एस. प्रभृति सर्वेषु क्षेत्रेषु स्वप्रतिभाप्रदर्शनं कुर्वन्ति | अस्माकं संस्कृति: संस्कृत-आधारिता अपि | अत एव संस्कृतभाषाया: अध्ययनं जीवनमूल्यपरकं जीवनवृतिसाधनपरं च अस्ति, नात्र को अपि सन्देह: |

अ – एकपदेन उत्तरत | (केवल प्रश्नद्वयम्) (1 x 2 = 2)

  1. सर्वभाषाणां जननी का?
  2. अस्माकं संस्कृति: का संस्कृत-आधारिता?
  3. कस्य व्याकरणं पूर्णतया वैज्ञानिकम् ?

आ – पूर्ण वाक्येन उत्तरत | (केवल प्रश्नद्वयम्) (2 x 2 = 4)

  1. ऐतिहासिकदृष्ट्या के महत्त्वपूर्णम् स्थानं भजन्ते?
  2. वर्तमान समये शिक्षणकौशलादिषु सर्वेषु क्षेत्रेषु के स्वप्रतिभाप्रदर्शनं कुर्वन्ति?
  3. संस्कृतभाषाया: अध्ययनं कीदृशम् अस्ति?

इ – अस्य अनुच्छेदस्य कृते उपयुक्तं शीर्षकं संस्कृतेन लिखत | (1)

ई – यथानिर्देम् उत्तरत | (केवल प्रश्नत्रयम्) (1 x 3 = 3)

01. “अध्येतार:” इति वाक्ये क्रियापदं किम्?

(अ) अस्ति

(ब) सन्ति

(स) भजन्ते

(द) कुर्वन्ति

02. “समुचितं” इति विशेषणपदस्य विशेष्यपदम् किम्?

(अ) समाधानं

(ब) संस्कृतशिक्षक:

(स) स्वानुभवै:

(द) जिज्ञासाया:

03. “हानय:” इति पदस्य किं विलोमपदं गद्याांशे प्रयुक्तम्?

(अ) सन्ति

(ब) लिखिता:

(स) लाभा:

(द) नैके

04. “पश्याम:” क्रियापदस्य कर्तृपदं किम्?

(अ) नैके

(ब) वयम्

(स) लाभा:

(द) संस्कृतपठनेन

खण्ड: ‘ख’(CBSE Sanskrit paper-2024 class-10)

रचनात्मकं कार्यम् Creative work 

प्रश्न – 2. भवान् सौरव: | स्वमितरं शाश्वतं प्रति स्वयात्रावृतान्तविषये लिखितम् इदं पत्रं मंजूषाया: पदै: पूरयित्वा पुन: लिखत | (1/2 x 10 = 5)

प्रयागराजत:

प्रिय-मित्रं (i) …………

सस्नेहं  (ii)  …………….,

अत्र सर्व कुशलं तत्रास्तु | गतमासे अहं (iii) …………… शिमलाम् गतवान् | तत्र पर्वतानां (iv) ……….. दृष्ट्वा मम मन: अतीव  (v) ……….. जातम् | तत्र (vi) ………. पर्यावरणम् वर्तते | शिमला (vii) ……….राजधानी अस्ति | अत: तत्र सर्वत्र विकास: दृश्यते | देशात् विदेशेभ्य: च पर्यटका: भ्रमणाय (viii) ………… आगच्छन्ति | अहमपि शिमलाभ्रमणम् कृत्वा आत्मानं (ix) ……….. मन्ये | भवान् अपि समयं प्राप्य एकवारं शिमलाम् गच्छेत् |

भवदीयं प्रियं मित्रं
(x) …………….. |

मंजूषा

सौरव:, शिमलाम्, भ्रमणाय,प्रसन्नम्, धन्यम्, सौन्दर्यम्, शुद्धम्,हिमाचलप्रदेशस्य, नमोनम:, शाश्वत ! |

प्रश्न – 3. प्रदत्तचित्रं दृष्ट्वा मंजूषायां प्रदत्तशब्दानां सहायतया पञ्च वाक्यानि संस्कृतेन लिखत | (1 x 5 = 5) 

Top Famous Historical Places in India that You Must Visit

मंजूषा

सुंदराणि, अनेकानि, चित्राणि, ऐतिहासिकस्थानानि, भवनानि, नौका, नद्याम्, ताजमहलम्, पर्वता:, सन्ति, मंदिरम्, रक्तदूर्गम् |  

 

अथवा

मंजूषाप्रदत्तशब्दानां सहायतया निम्नलिखितं विषयम् अधिकृत्य न्यूनातिन्यूनं पंचभि: संस्कृतवाक्यै: एकम् अनुछेदं लिखत | (1 x 5 = 5)

“मम प्रियं पुस्तकम्”

मंजूषा

मम, पठने, महती, ज्ञानस्य, साधनं, भगवद्गीता, पुस्तकं, प्रियं, रूचि:, गीतायाम्, भण्डार:, कर्मयोग:, भक्तियोग:, अर्जुनं प्रति, उपदेश: |

प्रश्न – 4. अधोलिखितानि वाक्यानि संस्कृतभाषया अनूद्य लिखत | (केवलपञ्चवाक्यानि ) (1 x 5 = 5)

01. मधुर मेरा मित्र है |

Madhur is my friend.

02. अनेक लोग उद्यान में घूम रहे हैं |

Many people are walking in the park.

03. हम सब घर जा रहे हैं |

We all are going home.

04. रमा ने कल संस्कृत गीत गाया |

Rama sang a Sanskrit song yesterday.

05. विद्यालय में सौ शिक्षक हैं |

There are hundred teachers in the school.

06. कल दश बजे परीक्षा होगी |

The examination well be held tomorrow at 10 o’clock.

07. मैं हिन्दी भाषा जानता हूँ |

I know Hindi language.

खण्ड: ‘ग’ 

अनुप्रयुक्त व्याकरणम् Grammar

प्रश्न – 5. अधोलिखितेषु वाक्येषु रेखांकित पदेषु संधिम् संधिविच्छेदं वा कुरुत | (केवल प्रश्नचतुष्ट्यम्) (1 x 4 = 4)

  1. अभियुक्त: + च अतीव कृषकाय: |
  2. बसयानं विहाय पदातिरेव प्राचलत |
  3. क: + अपि त्रैलोक्ये मत्सदृश: |
  4. धिङ् मामेवं भूतम् |
  5. सर्वथा सम्यगुक्तम् |

प्रश्न – 6. अधोलिखितेषु वाक्येषु रेखांकित पदनां समासं विग्रहं वा प्रदत्तविकल्पेभ्य: चित्वा लिखत | (केवल प्रश्नचतुष्ट्यम्) (1 x 4 = 4)

01. किम् वनराजपदाय सुपात्रम् चीयते ?

(क) वनराज: पदाय

(ख) वनराजा पदाय

(ग) वनराजे पदाय

(घ) वनराजस्य पदाय

02. दीने पुत्रे माता कृपया आर्द्रं हृदयं यस्या: सा भवति |

(क) कृपार्द्रहृदया

(ख) कृपयार्द्रहृदया

(ग) कृपहृदयार्दा

(घ) कृपाद्राहृदया

03. कुशलवौ सभां प्रविशत: |

(क) लव: कुशा: च

(ख) कुश: लवौ च

(ग) कुश: च लव: च

(घ) कुशौ च लवौ च

04. प्रजासुखे सुखं राज्ञ: |

(क) प्रजा सुखे च

(ख) प्रजानां सुखे

(ग) प्रजा: सुखम् च

(घ) प्रजाया: सुखम् च

05. सव्यवधानम् न चारित्र्यलोपाय |

(क) व्यवधानं सह

(ख) व्यवधानेन सहितम्

(ग) व्यवधानाय सहितम्

(घ) व्यवधानस्य सहितम्

प्रश्न – 7. अधोलिखितेषु वाक्येषु रेखांकित पदनां प्रकृति-प्रत्ययौ संयोज्य विभज्य वा उचितम् उत्तरं विकल्पेभ्य: चित्वा लिखत | (केवल प्रश्नचतुष्ट्यम्) (1 x 4 = 4)

1. ‘विद्वान्’ एव चक्षुष्मान् प्रकीर्तित: |

(क) चक्षुष्+ टाप्

(ख) चक्षुष् + मतुप्

(ग) चक्षुष् + वतुप्

(घ) चक्षुष् + क्तवतु

2. मम नृत्यं प्रकृते: आराधन + टाप् |

(क) आराधनम्

(ख) आराधन:

(ग) आराधना

(घ) आराधनता

3. चित्ते अवक्रता भवेत् |

(क) अवक्र + टाप्

(ख) अवक्र + त्व

(ग) अवक्र + क्त्वा

(घ) अवक्र + तल्

4. इयं काचित् व्याघ्रमारी इति |

(क) व्याघ्रमार + टाप्

(ख) व्याघ्रमार + ङीप्

(ग) व्याघ्रमार + मतुप्

(घ) व्याघ्रमार + ई

5. वेदानां महत् + त्व को न जानाति ?

(क) महत्त्वम्

(ख) महत्ता

(ग) महत्वम्

(घ) महात्त्वम्

Active voice to passive voice:-

प्रश्न – 8. वाच्यानुसारम् उचितपदै: रिक्तस्थानानि पूरवयित्वा अधोलिखितं संवादं पुन: लिखत | (केवल प्रश्नत्रयम्) (1 x 3 = 3) 

01. शिवा – रमे! अद्य विलम्बेन कथम् ?

रमा – शिवे! अद्य ………… उत्सवं द्रष्टुं गच्छामि |

(क) मम

(ख) माम्

(ग) मया

(घ) अहम्

02. शिवा – किम् तत्र तव सखी अपि गच्छति ?

रमा – नहि, तत्र ………… एव गम्यते |

(क) अहम्

(ख) सख्या

(ग) वयम्

(घ) मया

03. शिवा – साधु ! किम् तत्र जना: अपि उत्सवं पश्यन्ति ?

रमा – आम्, तत्र जनै: अपि ………… दृश्यते |

(क) उत्सव:

(ख) उत्सवम्

(ग) उत्सवान्

(घ) उत्सवौ

04. शिवा – रमे! अद्य विद्यालये संगीत-प्रतियोगीता भवति |

रमा – शोभनम् | तत्र मया अपि गीतं ………… |

(क) गायामि

(ख) गायति

(ग) गीयते

(घ) गीयन्ते

प्रश्न – 9 कालबोधकै: अधोलिखित-वाक्यानि पूरयत | (केवलप्रश्नचतुष्ट्यम्) (1 x 4 = 4)

  1. अहं नित्यं प्रात: (07:00) ………………..वादने उद्यानं गच्छामि |
  2. तदन्तरं (08:00) ………….. वादने गृहं प्रत्यागच्छामि |
  3. तदा (09:30) ………….. वादने मनोरंजनाय दूरदर्शनं पश्यामि |
  4. (12:45) …………..वादने पठनात् मुक्तो भवामि |
  5. तत्पश्चात (02:15) …………….वादने क्रीडाक्षेत्रं गच्छामि |

प्रश्न – 10 मञ्जूषायां प्रदतै: उचितै: अव्ययपदै: अधोलिखित-वाक्येषु रिक्तस्थानानि पूरयत | (केवलप्रश्नत्रयम् ) (1 x 3 = 3)

  1. गंगा हिमालयात् प्रभवति, यमुना …………… प्रभवति |
  2. विद्यालये …………. कार्यक्रम: भविष्यति |
  3. ……………..वृष्टि: प्रारभत |
  4. धनस्य ……………..प्रयोगं मा कुर्यु: |

मंजूषा

सहसा, वृथा,श्व:, कुत:

 

प्रश्न – 11. अधोलिखित-वाक्येषु रेखांकित-अशुद्धपदाय उचितं पदं चित्वा वाक्यानि पुन: लिखत | (केवलप्रश्नत्रयम्) (1 x 3 = 3)

1. क्रीडाक्षेत्रे छात्रा: पठथ: |

(क) पठसि

(ख) पठथ

(ग) पठाम:

(घ) पठन्ति

2. ह्य: विद्यालयस्य वार्षिकोत्सव: भविष्यति |

(क) भवति

(ख) भवतु

(ग) अभवत्

(घ) भवेत्

3. बलीवर्द: शरीरेण दुर्बलम् आसीत् |

(क) दुर्बल:

(ख) दुर्बला

(ग) दुर्बलस्य

(घ) दुर्बलात्

4. महावृक्षा: सेवितव्य: |

(क) महावृक्षे

(ख) महावृक्ष:

(ग) महावृक्षस्य

(घ) महावृक्षम्

खण्ड: ‘घ’ (CBSE Sanskrit paper-2024 class-10)

पठितावबोधनम् (Read understanding)

प्रश्न – 12. अधोलिखितं गद्याशं पठित्वा प्रदत्तप्रश्नानां उत्तराणि संस्कृतेन लिखत | (5)

आरक्षी सुपुष्टदेह आसीत्, अभियुक्तश्च अतीव कृशकाय: | भारवत: शवस्य स्कन्धेन वहनं तत्कृते दुष्करं आसीत् | स भारवेदनया क्रन्दति स्म | तस्य क्रन्दनं निशम्य मुदित आरक्षी तमुवाच – “रे दुष्ट ! तस्मिन् दिने त्वया अहं चोरिताया मंजूषाया ग्रहणाद् वारित: | इदानीम् निजकृत्यस्य फलं भुंक्ष्व | अस्मिन् चौर्याभियोगे त्वं वर्षत्रयस्य कारादंडम् लप्स्यसे” इति प्रोच्य उच्चैः अहसत् | यथाकथंचित् उभौ शवमानीय एकस्मिन् चत्वरे स्थापितवन्तौ | न्यायाधीशेन पुन: तौ घटनाया: विषये वक्तुं आदिष्टौ | आरक्षिणि निजपक्षं प्रस्तुतवति आश्चर्यम् अघटत् स शव: प्रावारकम् अपसार्य न्यायाधीशम् अभिवाद्य निवेदितवान् – मान्यवर ! एतेन आरक्षिणा अध्वनि यदुक्तं तद् वर्णयामि “त्वया अहं चोरिताया मंजूषाया ग्रहणाद् वारित:, अत: निजकृत्यस्य फलं भुंक्ष्व |

अ. एकपदेन उत्तरत – (केवलप्रश्नद्वयम्) (1/2 x 2 = 1)

  1. सुपुष्टदेह: क: आसीत्?
  2. अभियुक्ताय भारवत: कस्य वहनं दुष्करं आसीत्?
  3. कृशकाय: क: आसीत्?

आ. पूर्णवाक्येन उत्तरत – (केवलप्रश्नद्वयम्) (1 x 2 = 2)

  1. आरक्षी अभियुक्तम् प्रति दण्डविषये किम् प्रोच्य उच्चैः अहसत्?
  2. अभियुक्त: कया क्रन्दति स्म?
  3. उभौ शवमानीय कुत्र स्थापितवन्तौ?

इ . निर्देशनुसारं उत्तरत – (केवलप्रश्नद्वयम्) (1 x 2 = 2)

  1. “त्वं वर्षत्रयस्य कारादंडम् लप्स्यसे” अत्र कर्तृपदं किम्?
  2. “चोरिताया:” इति विशेषणपदस्य विशेष्यपदं किम्?
  3. “प्रणम्य” इति पदस्य किम् पर्यायपदं गद्यांशे प्रयुक्तम्?

प्रश्न –13. अधोलिखितं पद्याशं पठित्वा प्रदत्त प्रश्नानां उत्तराणि संस्कृतेन लिखत | (5)

पिता यच्छति पुत्राय बाल्ये विद्याधनं महत् |

पिता अस्य किंतपस्तपे इत्युक्तिस्तत्कृतज्ञता ||

अ. एकपदेन उत्तरत- (केवलप्रश्नद्वयम्) (1/2 x 2 = 1)

  1. पिता कदा विद्याधनं यच्छति?
  2. पिता कस्मै विद्याधनं यच्छति?
  3. क: तपस्तपे?

आ. पुर्णवाक्येन उत्तरत- (केवलप्रश्नद्वयम्) (1 x 2 = 2)

  1. का उक्ति: कृतज्ञता?
  2. पिता पुत्राय कीदृशं विद्याधनं यच्छति?
  3. पिता पुत्राय बाल्ये कीदृशं धनं यच्छति?

इ . निर्देशनुसारं उत्तरत- (केवलप्रश्नद्वयम्) (1 x 2 = 2)

  1. “सुताय” इति पदस्य पर्यायपदं किम्?
  2. “महत्” इति पदस्य विशेष्यपदं किम्?
  3. “यच्छति” इति पदस्य कर्तृपदं किम्?

प्रश्न –14. अधोलिखितं नाट्यांशं पठित्वा प्रदत्त प्रश्नानां उत्तराणि संस्कृतेन लिखत | ( 5 )

राम: – अहो ! उदात्तरम्य: समुदाचार: | किं नामधेयो भवतो: गुरु:?

लव: – ननु भगवान् वाल्मीकि: |

राम: – केन सम्बन्धेन?

लव: – उपनयनोपदेशेन |

राम: – अहमत्र भवतो: जनकं नामतो वेदितुमिच्छामि |

लव: – न हि जानाम्यस्य नामधेयम् | न कश्चित् अस्मिन् तपोवने तस्य नाम व्यवहरति |

राम: – अहो माहात्म्यम् |

कुश: – जानाम्यहं तस्य नामधेयम् |

राम: – कथ्यताम् |

कुश: – निरनुक्रोशो नाम |

राम: – वयस्य, अपूर्वं खलु नामधेयम् |

विदूषक: – (विचिन्त्य) एवं तावत् पृच्छामि | निरनुक्रोश इति क एवं भणति?

कुश: – अम्बा |

अ. एकपदेन उत्तरत- (केवलप्रश्नद्वयम्) (1/2 x 2 = 1)

  1. लवस्य गुरो: नाम किम्?
  2. लवकुशयो: गुरो: नाम क: पृच्छति?
  3. लवस्य पितु: नाम क: जानाति?

आ. पूर्णवाक्येन उत्तरत—( केवलप्रश्नद्वयम्) (1 x 2 = 2)

  1. वाल्मीकि: केन सम्बन्धेन लवकुशयो: गुरु: अस्ति?
  2. कुश: स्वपितु: नाम किम् ज्ञापयति?
  3. क: लवकुशयो: जनकस्य नाम वेदितुम् इच्छति?

इ. निर्देशनुसारं उत्तरत- (केवलप्रश्नद्वयम्) (1 x 2 = 2)

  1. “जानामि” इति पदस्य किम् कर्तृपदम्?
  2. “वाल्मीकि:” इति विशेष्यपदस्य विशेषणपदं किम्?
  3. “माता” इति पदस्य गद्यांशे पर्यायपदं किं प्रयुक्तम्?

प्रश्न – 15. रेखांकितपदानि आधृत्य प्रश्ननिर्माणं कुरुत (केवलप्रश्नचतुष्ट्यम्) (1 x 4 = 4)

  1. य: आत्मन: श्रेय: इच्छति |
  2. सुरभि: पुत्रस्य दैन्यं दृष्ट्वा रोदिति |
  3. त्वं मानुषात् बिभेषि |
  4.  काक: कृष्ण: भवति |
  5. हरितरूणाम् माला रमणीया |

प्रश्न – 16. मंजूषात: समुचितपदानि चित्वा अधोलिखितश्लोकस्य अन्वय पूरयित्वा पुन: लिखत | (1 x 4 = 4)

प्रस्तरतले लतातरुगुल्मा नो भवन्तु पिष्टा: |

पाषाणी सभ्यता निसर्गे स्यान्न समाविष्टा ||

मानवाय जीवनं कामये नो जीवन्मरणम् | शुचि ||

अन्वय: – (i)………….. प्रस्तरतले पिष्टा: नो (ii) ……………. | निसर्गे (iii) …………. सभ्यता समाविष्टा न (iv)………… | मानवाय जीवनं कामये नो जीवन्मरणम् |

             मञ्जूषा
पाषाणी, स्यात्, लतातरुगुल्मा:, भवन्तु

अथवा
मञ्जूषाया: सहायतया श्लोकस्य भावार्थ: रिक्तस्थानानि पूरयित्वा पुन: लिखत | (1 x 4 = 4)

एक एव खगो मानी वने वसति चातक: |

पिपासितो वा म्रियते याचते वा पुरन्दरम् ||

भावार्थ: – वने केवलम् (i) …………एव (ii) …………. स्वाभिमानी पक्षी वसति | स: (iii) ………….. वा म्रियते अथवा केवलं जलं (iv) ………….याचते अर्थात् स: सर्वं न याचते |

                  मञ्जूषा

चातक:, एक:, पिपासित:, इन्द्रदेवम्

प्रश्न – 17. अधोलिखितं कथाशं समुचित-क्रमेण लिखत | (1/2 x 8 = 4)

  1. निर्धनस्य पुत्र: छात्रावासे निवसन् अध्ययने संलग्नो जात: |
  2. तेन वित्तेन स्वपुत्रं एकस्मिन् महाविद्यालये प्रवेशं कारितवान् |
  3. कश्चन निर्धन: जन: परिश्रमेण किंचित् धनम् अर्जितवान् |
  4. पुत्रस्य रुग्णतां श्रुत्वा पिता व्याकुलो जात: |
  5. पुत्र: छात्रावासे रुग्ण: जात: |
  6. सांय-कालो जात: परं गंतव्यात् स: पुत्र: दूरे आसीत् |
  7. निर्धन: स्व-पुत्रं द्रष्टुम् पदाति: एव प्राचलत् |
  8. स: पार्श्वस्थिते ग्रामे रात्रि-निवासं कर्तुं कमपि गृहम् उपागत: |

प्रश्न – 18. अधोलिखितवाक्येषु रेखांकितपदानां प्रसंगानुकूलम् उचितार्थम् चित्वा लिखत | (केवलप्रश्नत्रयम्) (1 x 3 = 3)

1. कश्चन निर्धन: वित्तम् उपार्जितवान् |

(क) वायुम्

(ख) फलम्

(ग) धनम्

(घ) अन्नम्

2. अपर: वानर: सिंहस्य पुच्छं धुनोति |

(क) अनेका:

(ख) अन्य:

(ग) प्रथम:

(घ) एक:

3. रसालमुकुलानि भृंगा: समाश्रयन्ते |

(क) हया:

(ख) नागा:

(ग) गजा:

(घ) भ्रमरा:

4. वासव ! अहं पुत्रस्य दैन्यं दृष्ट्वा रोदिमि

(क) पुत्र !

(ख) इन्द्र !

(ग) गणेश !

(घ) शिव !

Leave a Comment