Pre-board exam 2024-25 Sanskrit class-10
यह प्रश्न पत्र दिल्ली शिक्षा-निदेशालय द्वारा जारी Pre-board exam 2024-25 Sanskrit class-10 पर आधारित है | इस प्रश्न-पत्र के द्वारा आप आगामी CBSE Board परीक्षा की तैयारी के लिए सहायता ले सकते हैं | मुझे पूर्ण विश्वास है कि इस प्रश्न-पत्र से आपको निश्चित रूप से Board exam में फायदा होगा |
कक्षा – 10
संस्कृत code – 122
समय – 3 Hours अंक – 80
सभी प्रश्नों के उत्तर अन्त में दिए गए हैं |
सामान्यनिर्देशा : General instructions.
- अस्मिन् प्रश्नपत्रे चत्वार: खण्डा: सन्ति |
- Four parts in this question paper.
- उत्तराणि संस्कृतेन एव लेखनीयानि |
- Write answer in Sanskrit only.
प्रश्नपत्र-स्वरुपम्-
क – अपठितावबोधनम् – 10 अंका:
ख – रचनात्मक-कार्यम् – 15 अंका:
ग – अप्रयुक्त-व्याकरणम् – 25 अंका:
घ – पठिताबोधनम् – 30 अंका:
-
Pre-board exam 2024-25 Sanskrit class-10 Answer sheet (evening shift)
-
Sanskrit Sample paper 2025 class 10
-
Answer Sanskrit Sample paper 2025 class 10
-
Sanskrit Sample paper 2024 class 10
-
Answer Sanskrit Sample paper 2024 class 10
-
CBSE Sanskrit paper-2023 class-10
खण्ड: ‘क’(Pre-board exam 2024-25 Sanskrit class-10)
अपठित-अवबोधनम् (10 अंका:)
प्रश्न – 1. अधोलिखितं गद्याशं पठित्वा प्रदत्त प्रश्नानां उत्तराणि संस्कृतेन लिखत | (10)
भारतीय संस्कृते: एकं प्रमुखं वैशिष्ट्यं अस्ति – परिवार व्यवस्था | प्राचीन कालादेव अस्माकं समाजे संयुक्तपरिवारस्य व्यवस्था वर्तते | संयुक्तपरिवारे पितामह:, पितामही:, पितृव्य:, माता, पिता, पितृव्यपत्नी:, भ्रातर:, भगिन्य:, पितृव्यसंततय: इत्यादय:सर्वे सुखेन तिष्ठन्ति | सुखं भवेत् दुखं वा भवेत्, सर्वे मिलित्वा कार्यं कुर्वन्ति | अत: कीदृशी अपि समस्या आगच्छेत्, तस्या: समाधानं सरलतया जायते | संयुक्तपरिवारेषु शिशुनां लालनं पालनं च सर्वेषाम् संयुक्तदायित्वं भवति | परिवारस्य वृद्धजनै: सह क्रीडित्वा एव लघुबालका: सहजतया संस्कारान् लभन्ते, किन्तु आधुनिकसमये संयुक्तपरिवारा: एकलपरिवारेषु परिवर्तनशीला सन्ति | एतेन समाजे अनेका: समस्या: उत्पन्ना: सन्ति | बालकानां कृते वृद्धानां मार्गदर्शनं न मिलति | अत: भारतीय मुल्यानां उत्तरोत्तरं संचरणम् अवरुद्धं अस्ति | तेनैव कारणेन वयस्केषु संस्कारहीनता परिलक्ष्यते | स्थिति: एषा सुखकरा न अस्ति | अस्मिन् विषये अस्माभि: चिन्तनं अवश्यं करणीयम् |
अ – एकपदेन उत्तरत | (केवल प्रश्नद्वयम्) (1 x 2 = 2)
- भारतीय संस्कृते: प्रमुखं वैशिष्ट्यं किम् अस्ति?
- संयुक्तपरिवारेषु केषाम् लालनं पालनं च सर्वेषाम् संयुक्तदायित्वं भवति?
- आधुनिकसमये संयुक्तपरिवारा: केषु परिवर्तनशीला सन्ति?
आ – पूर्ण वाक्येन उत्तरत | (केवल प्रश्नद्वयम्) (2 x 2 = 4)
- संयुक्तपरिवारे के के तिष्ठन्ति?
- लघुबालका: संस्कारान् कथं लभन्ते?
- भारतीय मुल्यानां उत्तरोत्तर संचरणम् किमर्थं अवरुद्धं अस्ति?
इ – अस्य अनुच्छेदस्य कृते उपयुक्तं शीर्षकं संस्कृतेन लिखत | (1)
ई – यथानिर्देम् उत्तरत | (केवल प्रश्नत्रयम्) (1 x 3 = 3)
01. “पुरातनसमये” इत्यस्य किम् विलोमपदं गद्यांशे प्रयुक्तम्?
(क) प्राचीनकालात्
(ख) भारतीय संस्कृते:
(ग) आधुनिकसमये
(घ) परिवर्तनशीला
02.“लभन्ते” इति क्रियापदस्य कर्तृपदं किम्?
(क) लघुबालका:
(ख) वृद्धजनै:
(ग) संस्कारान्
(घ) परिवारस्य
03. “उत्तरोत्तरं संचरणम्” अनयो: पदयो: विशेषणपदं किम्?
(क) संचरणम्
(ख) मूल्यानाम्
(ग) अवरुद्धम्
(घ) उत्तरोत्तरं
04. “सर्वे मिलित्वा कार्यं कुर्वन्ति” अस्मिन् वाक्ये क्रियापदं किम्?
(क) सर्वे
(ख) कुर्वन्ति
(ग) कार्यं
(घ) मिलित्वा
खण्ड: ‘ख’
रचनात्मकं कार्यम् Creative work
प्रश्न – 2. भवान् सुयश: अस्ति छात्रावासे निवसन् गीताध्ययनाय अनुमतिं प्राप्तुं स्वपितरम् प्रति लिखिते अस्मिन् पत्रे रिक्तस्थानेषु मंजूषापद सहायतया पूरयित्वा पुन: लिखत | (1/2 x 10 = 5)
त्रिवेणीनगरं
(i) ………………
दिनांक: …………
(ii) ……….. पित: !
सादरं चरणवन्दनम् |
अहं अत्र (iii) ……………अस्मि | भवान् इदं (iv) ……….. प्रसन्नो भविष्यति, यत् मम छात्रावासस्य समीपे एव (v) ……….. उद्घाटितम् | भवान् तु जानाति एवं यत् (vi) ………. गीताध्ययनाय मम इच्छा अस्ति | (vii) ……….. आचार्यो अपि कथयति यत् अस्माभि: गीताध्ययनम् अवश्यं करणीयम् | अस्मिन् गीताशिक्षणकेंद्रे कोsपि शुल्क: नास्ति | भवान् एतस्मै उत्तमकार्याय (viii) ………… अनुमतिम् अवश्यं प्रदास्यति इति मे विश्वास: | मात्रे (ix) ……….. |
भवत: (x) ……………
सुयश:
मंजूषा
गीताशिक्षणकेंद्रम्, आत्मज:, पूजनीय:, माम्, जयपुरत:, कुशली, प्रणामा:, ज्ञात्वा, बहुकालात्, अस्माकम् |
प्रश्न – 3. प्रदत्तचित्रं दृष्ट्वा मंजूषायां प्रदत्तशब्दानां सहायतया पञ्च वाक्यानि संस्कृतेन लिखत | (1 x 5 = 5)
मंजूषा
व्यायामशाला, उद्याने, जना:, यन्त्राणि, स्वस्थ्याय, कुर्वन्ति, नि:शुल्क:, प्रतिदिनं, सुविधा, सर्वेषाम् |
प्रश्न – 4. अधोलिखितानि वाक्यानि संस्कृतभाषया अनूद्य लिखत | (केवलपञ्चवाक्यानि ) (1 x 5 = 5)
- प्रधानाचार्य ध्वजारोहण करेंगे |
- हमेशा स्वाध्याय करो |
- द्वीप के चारों ओर समुद्र है |
- हमारा देश महान् है |
- मछुआरों ने मछलियों को मारा |
- आनन्द संस्कृत पढ़ायेगा |
- अपने प्रतिकूल आचरण दूसरों के साथ मत करो |
खण्ड: ‘ग’
अनुप्रयुक्त व्याकरणम् Grammar (Sample paper class – 10)
प्रश्न – 5. अधोलिखितेषु वाक्येषु रेखांकित पदेषु संधिम् संधिविच्छेदं वा कुरुत | (केवल प्रश्नचतुष्ट्यम्) (1 x 4 = 4)
- को वा भवतोर्वंशस्य कर्ता |
- तत् + अहं सुह्रिज्ज्नसाधारणम् श्रोतुमिच्छति |
- बुद्धिर्बलवती तन्वि सर्वकार्येषु सर्वदा |
- पाषाणी सभ्यता निसर्ग स्यान्न समाविष्टा |
- संकोचमंचति सर: + त्वयि दीन दीनो |
प्रश्न – 6. अधोलिखितेषु वाक्येषु रेखांकित पदानां समासं विग्रहं वा प्रदत्तविकल्पेभ्य: चित्वा लिखत | (केवल प्रश्नचतुष्ट्यम्) (1 x 4 = 4)
01. राजसिंह: नाम राजपुत्र: वसति स्म |
(क) राज्ञे पुत्र:
(ख) राज्ञा पुत्र:
(ग) राजा पुत्र:
(घ) राज्ञ: पुत्र:
02. व्याघ्र: – अक्ष्ण: प्रति एवं मया दृष्टा |
(क) प्रत्यक्षम्
(ख) अक्षप्रति
(ग) प्रत्येकाक्षम्
(घ) प्रतीक्षम्
03. वाची पटु: धैर्यवान् मंत्री सभायामप्याकातर: |
(क) वाणीपटु
(ख) वाच्पटु:
(ग) वाक्पटु:
(घ) वाच: पटु:
04. रामलक्ष्मणौ वनं गतावन्तौ |
(क) रामसहित लक्ष्मण:
(ख) रामस्य लक्ष्मण:
(ग) रामे लक्ष्मण:
(घ) रामश्च लक्ष्मणश्च
05. किं द्वयोरप्येकमेव प्रतिवचनम् |
(क) वचने प्रति
(ख) वचनं वचनं प्रति
(ग) प्रति प्रति वचनं
(घ) वचनात् प्रति
प्रश्न – 7. अधोलिखितेषु वाक्येषु रेखांकित पदनां प्रकृति-प्रत्ययौ संयोज्य विभज्य वा उचितम् उत्तरं विकल्पेभ्य: चित्वा लिखत | (केवल प्रश्नचतुष्ट्यम्) (1 x 4 = 4)
01. सज्जनस्य चित्ते कदापि वक्रता न भवति |
(क) वक्र + ता
(ख) वक्र + अता
(ग) वक्र + तल्
(घ) वक्रत + आ
02. वाक्पटु: धैर्य + मतुप् मंत्री सभायामप्याकातर: |
(क) धैर्यवान्
(ख) धैर्यमान्
(ग) धैर्यावान्
(घ) धैर्यमत्
03. किं कुपिता एवं भणति |
(क) कुपि + ता
(ख) कुपित + टाप्
(ग) कुपित् + आ
(घ) कुप् + इता
04. पर्यावरणहितैषिण: वयम्, अत: वृक्षेषु अपि देव + त्व स्थापयाम: |
(क) देवता
(ख) देवत्वा
(ग) देवत्
(घ) देवत्वं
05. काचित् व्यघ्रामारी इयम् |
(क) व्याघ्रमार + ङीप्
(ख) व्याघ्रमार + री
(ग) व्याघ्रम् + आरी
(घ) व्याघ्रमार + टाप्
Active voice to passive voice:-
प्रश्न – 8. वाच्यानुसारम् उचितपदै: रिक्तस्थानानि पूरवयित्वा अधोलिखितं संवादं पुन: लिखत | (केवल प्रश्नत्रयम्) (1 x 3 = 3)
01. अध्यापक: – वरुण! ………….. किं नयसि ?
(क) अहम्
(ख) त्वया
(ग) वरुण:
(घ) त्वम्
02. वरुण: – महोदय! मया गीतपुस्तकं …………….. |
(क) नीयते
(ख) नयामि
(ग) नयसि
(घ) नयति
03. अध्यापक: – शोभनम्! …………….प्रतियोगितायै गीत: स्मर्यते किम्?
(क) त्वम्
(ख) त्वाम्
(ग) त्वया
(घ) तव
04. वरुण: – आम् महोदय! मया सुष्ठुतया …………… स्मर्यते |
(क) गीतम्
(ख) गीत:
(ग) गीतेन
(घ) गीतस्य
प्रश्न – 9 कालबोधकै: अधोलिखित-वाक्यानि पूरयत | (केवलप्रश्नचतुष्ट्यम्) (1 x 4 = 4)
- निशा (12:30) ……………….. बसस्थानकम् गच्छति |
- सा (01:00) ………….. बसयानं आरोहति |
- सा मार्गे (03:45) ………….. जलपानम् करोति |
- सा (04:15) ………….. गीतं शृणोति |
- सा (06:00) ……………. जयपुरं प्राप्नोति |
प्रश्न – 10 मञ्जूषायां प्रदतै: उचितै: अव्ययपदै: अधोलिखित-वाक्येषु रिक्तस्थानानि पूरयत | (केवलप्रश्नत्रयम् ) (1 x 3 = 3)
- ………… कुष्ठरोगस्य उपचार: सम्भव: अस्ति |
- मनीषा दिव्या ……….. सख्यौ स्त: |
- ………. आकाशे मेघा: आच्छादिता: |
- परीक्षासमये …….. भ्रमित्वा समयं न यापय |
मंजूषा
सहसा, सम्प्रति, इतस्तत:, च |
प्रश्न – 11. अधोलिखित-वाक्येषु रेखांकित-अशुद्धपदाय उचितं पदं चित्वा वाक्यानि पुन: लिखत | (केवलप्रश्नत्रयम्) (1 x 3 = 3)
01. उत्तरपूर्वभारते सर्वत्र वना: सन्ति |
(क) वनानि
(ख) वनेन
(ग) वनान्
(घ) वनात्
02. राम: मित्रं सह अटति |
(क) मित्रात्
(ख) मित्रेण
(ग) मित्रस्य
(घ) मित्राय
03. स: विद्याध्ययनाय गुरुकुलं गमिष्यामि |
(क) त्वम्
(ख) देव:
(ग) अहम्
(घ) आवाम्
04. ह्य: नगरे बहुवृष्टि: भविष्यति |
(क) भवेत्
(ख) भवति
(ग) भवतु
(घ) आसीत्
खण्ड: ‘घ’ (Pre-board exam 2024-25 Sanskrit class-10)
पठितावबोधनम् Read understanding
प्रश्न – 12. अधोलिखितं गद्याशं पठित्वा प्रदत्तप्रश्नानां उत्तराणि संस्कृतेन लिखत | (5)
कश्चन निर्धनो जन: भूरि परिश्रम्य किंचित् वित्तमुपार्जितवान् | तेन वित्तेन स्वपुत्रम् एकस्मिन् महाविद्यालये प्रवेशं दापयितुं सफलो जात: | तत्तनय: तत्रैव छात्रावासे निवसन् अध्ययने संलग्न: समभूत् | एकदा स पिता तनूजस्य रुग्णतामाकर्ण्य व्याकुलो जात: पुत्रं द्रष्टुम् च प्रस्थित: | परमर्थकार्श्येन पीडित: स बसयानं विहाय पदातिरेव प्राचलत् | पदातिक्रमेण सञ्चलन् सायं समय: अपि असौ गंतव्याद् दूरे आसीत् | निशान्धकारे प्रसृते विजने प्रदेशे पदयात्रा न शुभावहा ‘इति विचार्य स पार्श्वस्थिते ग्रामे रात्रिनिवासं कर्तुं कंचिद् गृहस्थमुपागत: | करुणापरो गृही तस्मै आश्रयं प्रायच्छत् |
अ. एकपदेन उत्तरत – (केवलप्रश्नद्वयम्) (1/2 x 2 = 1)
- निर्धनो जन: भूरि परिश्रम्य किं उपार्जितवान्?
- स: स्वपुत्रम् कुत्र प्रवेशं दापयितुं सफलो जात:?
- कीदृश: गृही तस्मै आश्रयं प्रायच्छत्?
आ. पूर्णवाक्येन उत्तरत – (केवलप्रश्नद्वयम्) (1 x 2 = 2)
- पिता किमर्थं पुत्रं द्रष्टुम् प्रस्थित:?
- केन कारणेन स: बसयानं विहाय पदातिरेव प्राचलत्?
- किम् विचार्य स: पार्श्वस्थिते ग्रामे रात्रिनिवासं कर्तुं कंचिद् गृहस्थमुपागत:?
इ . निर्देशनुसारं उत्तरत – (केवलप्रश्नद्वयम्) (1 x 2 = 2)
- “निर्धन: जन:” अत्र विशेष्यपदं किम्?
- “गृही तस्मै आश्रयं प्रायच्छत्” अस्मिन् वाक्ये कर्तृपदं किम्?
- “समीपे” इति पदस्य किम् विलोमपदं गद्यांशे प्रयुक्तम्?
प्रश्न –13. अधोलिखितं पद्यांशं पठित्वा प्रदत्त प्रश्नानां उत्तराणि संस्कृतेन लिखत | (5)
आलस्यं हि मनुष्याणां शरीरस्थो महान् रिपु: |
नास्त्युद्यमसमो बन्धु: कृत्वा यं नावसीदति ||
अ. एकपदेन उत्तरत- (केवलप्रश्नद्वयम्) (1/2 x 2 = 1)
- मनुष्याणां महान् रिपु: क:?
- उद्यमसम: क: नास्ति?
- आलस्यं कुत्र स्थितो भवति?
आ. पुर्णवाक्येन उत्तरत- (केवलप्रश्नद्वयम्) (1 x 2 = 2)
- आलस्यं केषां शरीरस्थो महान् रिपु:?
- किम् कृत्वा मनुष्य: नावसीदति?
- क: श्रेष्ठ: उद्यम: आलस्यं वा?
इ . निर्देशनुसारं उत्तरत- (केवलप्रश्नद्वयम्) (1 x 2 = 2)
- “शत्रु:” इति पदस्य पर्यायपदं किम्?
- “महान् रिपु:” अत्र विशेषणपदं किम्?
- “नास्त्युद्यमसमो बन्धु:” अस्मिन् वाक्ये कर्तृपदं किम्?
नाट्यांशं
प्रश्न –14. अधोलिखितं नाट्यांशं पठित्वा प्रदत्त प्रश्नानां उत्तराणि संस्कृतेन लिखत | ( 5 )
वानर: – (सगर्वम्) अतएव कथयामि यत् अहमेव योग्य: वनराजपदाय | शीघ्रमेव मम राज्याभिषेकाय तत्परा: भवन्तु सर्वे वन्यजीवा: |
मयूर: – अरे वानर! तूष्णीं भव | कथं त्वं योग्य: वनराजपदाय? पश्यतु पश्यतु मम शिरसि राजमुकुटमिव शिखां स्थापयता विधात्रा एव अहं पक्षिराज: कृत:, अत: वने निवसन्तम् मां वनराजरूपेण द्रष्टुम् सज्जा: भवन्तु अधुना | यत: कथं क: अपि अन्य: विधातु: निर्णयं अन्यथाकर्तुं क्षम: |
काक: – (सव्यंग्यम्) अरे अहिभुक्! नृत्यातिरिक्तम् का तव विशेषता यत् त्वां वनराजपदाय योग्यं मन्यामहे वयम् |
अ. एकपदेन उत्तरत- (केवलप्रश्नद्वयम्) (1/2 x 2 = 1)
- सगर्वमम् क: वदति?
- के राज्याभिषेकाय तत्परा: भवन्तु?
- कस्य शिरसि राजमुकुटमिव शिखा स्थापिता?
आ. पूर्णवाक्येन उत्तरत—( केवलप्रश्नद्वयम्) (1 x 2 = 2)
- काक: सव्यंग्यम् किं कथयति?
- कस्य निर्णय: कोsपि अन्यथाकर्तुं न क्षम:?
- मयूर: वानरं किम् पृच्छति?
इ. निर्देशनुसारं उत्तरत- (केवलप्रश्नद्वयम्) (1 x 2 = 2)
- “मौनं” इति पदस्य नाट्यांशे पर्यायपदं किं प्रयुक्तम्?
- “तत्परा: भवन्तु सर्वे वन्यजीवा:” अत्र विशेषणपदम् किम्?
- “पश्यतु मम शिरसि” अस्मिन् वाक्ये क्रियापदं किम्?
प्रश्न – 15. रेखांकितपदानि आधृत्य प्रश्ननिर्माणं कुरुत (केवलप्रश्नचतुष्ट्यम्) (1 x 4 = 4)
- पुरा त्वया मह्यं व्याघ्रत्रयं दत्तम् |
- शिशुजन: गुणमहतां लालनीय: एव भवति |
- अयम् अन्येभ्यो दुर्बल: |
- धैर्यवान् लोके परिभवं न प्राप्नोति |
- पतंगा: अम्बरपथम् आपेदिरे |
प्रश्न – 16. मंजूषात: समुचितपदानि चित्वा अधोलिखितश्लोकस्य अन्वय पूरयित्वा पुन: लिखत | (1 x 4 = 4)
आचार: प्रथमो धर्म: इत्येतद् विदुषां वच: |
तस्मात् रक्षेत् सदाचारं प्राणेभ्योsपि विशेषत: ||
अन्वय: – आचार: (i)………….. धर्म: (अस्ति) इत्येतद् (ii) ……….. वच: (अस्ति) | तस्मात् (मनुष्य:) (iii) …………. अपि तप: विशेषत: सदाचारं (iv)………… |
मञ्जूषा
विदुषां, रक्षेत्, प्रथमो, प्राणेभ्य: |
अथवा
मञ्जूषाया: सहायतया श्लोकस्य भावार्थ: रिक्तस्थानानि पूरयित्वा पुन: लिखत | (1 x 4 = 4)
कंचित् कालं नय मामस्मान्नगराद् बहुदूरम् |
प्रपश्यामि ग्रामान्ते निर्झर – नदी – पय:पूरम् ||
एकान्ते कान्तारे क्षणमपि में स्यात् संचरणम् |
भावार्थ: – महानगरेषु प्रदूषितं वातावरणम् दृष्ट्वा कवि: कथयति यत् माम् अस्मात् नगरात् (i) ………… नयतु | स: कस्मिंश्चित् प्राकृतिकस्थले (ii) …………. नदीनां निर्झराणाम् च दर्शनं कर्तुं तथा च किंचित् (iii) ……….. यावत् (iv) ………….वने गन्तुम् इच्छति |
मञ्जूषा
जलयुक्तानां, एकान्ते, बहुदूरे, समयं |
प्रश्न – 17. अधोलिखितं कथाशं समुचित-क्रमेण लिखत | (1/2 x 8 = 4)
- कौशिक! अहं तु पुत्रं शोचामि, तेन रोदिमि |
- यतो हि अयम् अन्यभ्यो दुर्बल: |
- एक: दुर्बल: ऋषभ: हलमूद्धा गन्तुमशक्त: क्षेत्रे पपात |
- इन्द्र: च तामेवमसान्त्वयत् – “गच्छ वत्से! सर्वं भद्रं जायेत |”
- क्रुद्ध: कृषिवल: तमुत्थापयितुम् बहुवारं यत्नमकरोत् |
- इन्द्र: पृच्छति – “अस्मिन्नेव पुत्रे एतादृशं वात्सल्यं कथम्?”
- लोकानां पश्यताम् एव सर्वत्र जलोपप्लव: संजात: |
- कश्चित् कृषक: बलिवर्दाभ्याम् क्षेत्रकर्षणं कुर्वन्नासीत् |
प्रश्न – 18. अधोलिखितवाक्येषु रेखांकितपदानां प्रसंगानुकूलम् उचितार्थम् चित्वा लिखत | (केवलप्रश्नत्रयम्) (1 x 3 = 3)
01. पिपसितो वा म्रियते याचते वा पुरन्दरम्
(क) सूर्यम्
(ख) विष्णुम्
(ग) शिवम्
(घ) इन्द्रम्
02. वेला अपि अवेला स्यात् |
(क) समय:
(ख) बुद्धि:
(ग) भाग्यम्
(घ) चिंता
03. आपेदिरेsम्बरपथं परित: पतंगा: |
(क) भ्रमरा:
(ख) खगा:
(ग) मयूरा:
(घ) व्याघ्रा:
04. व्रजति हिमकर: अपि बालभावात् |
(क) सूर्य:
(ख) मेघ:
(ग) चन्द्र:
(घ) तारक:
विस्तृत अध्ययन के लिए नीचे दिए गए link पर click करे :-
1 thought on “Pre-board exam 2024-25 Sanskrit class-10”